________________
३७७
उद्देशकः ६, मूलं-२०५, [भा. ६२१६] मधुरं च तस्यै दातव्यम्, शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति, उष्णे च वातश्लेष्मापहरः, यथा च वातो न लभ्यते तथा कर्तव्यम् । तथा किमयं दैविकः' देवेनभूतादिना कृत उपद्रवः ? उत धातुक्षोभः ? इति ज्ञातुं देवताराधनाय 'उत्सर्ग' कायोत्सर्ग क्रियते । तस्मिंश्च क्रियमाणे यद् आकम्पितया देवतया कथितं तदनुसारेण ततः क्रिया कर्तव्या। यदि दैविक इति कथितं तदा प्राशुकैषणीयेन तस्या उपचारः, शेषसाध्वीनां तपोवृद्धि, तदुपशमनाय च मन्त्रादिस्मरणमिति । अथ वातादिना धातुक्षोभ इति कथितं तदा स्निग्धमधुराधुपचार इति ।। सम्प्रति “रक्खंताण य फिडिए" त्यादि व्याख्यानयति[भा.६२१७] अगडे पलाय मग्गण, अन्नगणो वा वि जो न सारखे।
गुरुगा जं वा जत्तो, तेसिंच निवेयणं काउं॥ वृ-अगडे इति सप्तमीपञ्चम्यर्थे, ततोऽयर्थ–'अवटात् कूपाद्, उपलक्षणमेतद्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्याः 'मार्गणम्' अन्वेषणं कर्तव्यम् । तथायेतत्राऽन्यत्र वाऽऽसन्ने दूरे वाऽन्यगणा विद्यन्ते तेषां च निवेदनाकरणम, निवेदनं कर्तव्यमिति भावः। यथा-अस्मदीया एका साध्वी क्षिप्तचित्ता नष्टा वर्तते । ततस्तैरपि सा गवेषीया, दृष्टा च सा सङ्ग्रहणीया । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिन्या अन्यगणवर्तिन्या वा तदा तेषां प्रायश्चित्तं चत्वारः 'गुरुकाः' गुरुमासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकं यच्च प्राप्स्यति मरणादिकं तन्निमित्तं च तेषां प्रायश्चित्तमिति ॥ [भा.६२१८] छम्मासे पडियरिउं, अनिच्छमाणेसु भुजयरओ वा।
कुल-गण-संघसमाए, पुव्वगमेणं निवेदेति ।। वृ.पूर्वोक्तप्रकारेण तावत् प्रतिचरणीया यावत् षण्मासा भवन्ति । ततो यदि प्रगुणा जायते तर्हि सुन्दरम् ।अथन प्रगुणीभूता ततः 'भूयस्तरकमपि पुनस्तरामपितस्याः प्रतिचरणं विधेयम्। अथ तेसाधवः परिश्रान्ता भयस्तरकं प्रतिचरणंनेच्छन्ति, ततस्तेष्वनिच्छत्सकुल-गण-सङ्घसमवायं कृत्वा पूर्वगमेन' ग्लानद्वारोक्तप्रकारेण तस्मै निवेदनीयम्, निवेदितेच ते कुलादयो यथाक्रमंतां प्रतिचरन्ति ।। अथ सा राजादीनां सज्ञातका भवेत् तदा इयं यतना[भा.६२१९] रन्नो निवेइयम्मि, तेसिं वयणे गवेसणा होति।
ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ घृ-यदिराज्ञोऽन्येषां वासा पुत्र्यादिका भवेत्ततो राज्ञः,उपलक्षणमेतद्, अन्येषांवा स्वजनानां निवेदनं क्रियते, यथा-युष्मदीयैषा पुत्र्यादिका क्षिप्तचित्ता जाता इति । एवं निवेदिते यदिब्रुवते राजादयः, यथा-मम पुत्र्यादीनां क्रिया स्वयमेव क्रियमाणा वर्तते तत इहैवतामप्यानयत इति । ततः सा तेषां वचनेन तत्र नीयते, नीतायाश्च तत्र तस्या गवेषणा भवति । अयमत्र भावार्थ:साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः 'सम्बन्धिन' स्वजना वदेयुः-वयमौषधानि वैद्यं वा सम्प्रयच्छामः, परमस्माकमासन्ने उपाश्रये स्थित्वा यूयं प्रतिचरथ । तत्र यदि शोभनो भावस्तदा एवं क्रियते । अथ गृहस्थीकरणाय तेषां भावस्तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते । तत्र च 'तिसृष्वपि' आहारोपधि-शय्यासु यतना कर्तव्या । एष द्वारगाथास पार्थः ।।
साम्प्रतमेनामेव विवरीषुः प्रथमतः “रत्रो निवेइयम्मी" इत्येतद् व्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org