________________
३७६
बृहत्कल्प-छेदसूत्रम् -३-६/२०५ {भा.१२१२] महिड्डिए उट्ट निवेसने य, आहार विविंचणा विउस्सग्गो।
रक्खंताण य फिडिया, अगवेसणे होंति चउगुरुगा॥ वृ-महर्द्धिको नाम-ग्रामस्य नगरस्यवा रक्षाकारी तस्य कथनीयम् । तथा “उट्ठ निवेसने य" त्ति मृदुबन्धैस्तथा संयतनीया यथा स्वयमुत्थानं निवेशनं च कर्तुं समर्था भवति । तथा यदि 'वातादिना धातुक्षोभोऽस्या अभूत्' इति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्ध-मधुरादिरूप आहारः प्रदातव्यः । “विगिचण'"त्ति उच्चारादेस्तस्याः परिठापनं कर्तव्यम्।यदिपुनः 'देवताकृत एष उपद्रवः' इति ज्ञायते तदा प्राशुकैषणीयेन क्रिया कार्या। तथा "विउस्सग्गो" इति 'किमयं वातादिना धातुक्षोभः? उत देवताकृत उपद्रवः ?" इत परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः । ततस्तयाऽऽकम्पितया कथिते सति तदनुरूपो यलो यथोक्तस्वरूपः करणीयः । एवंरक्षतामपियदिसा कथञ्चित् स्फिटिता स्यात् ततस्तस्या गवेषणंकर्तव्यम् ।अगवेषणेप्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतो महर्द्धिकद्वारं विवृणोति. [भा.६२१३] अम्हं एत्थ पिसादी, रक्खंताणं पि फिट्टति कताई।
साहु परिरक्खियब्वा, महिड्दिगाऽऽरखिए कहणा ॥ वृ. 'महर्द्धिके' ग्रामस्य नगरस्य वा रक्षाकारिण्यारक्षके कथना कर्तव्या, यथा-'अत्र' एतस्मिन्नुपाश्रयेऽस्माकं रक्षतामप्येषा 'पिशाची' ग्रथिला कदाचित् 'स्फिटति' अपगच्छति सा 'हुः' निश्चितं परिरक्षयितव्या, प्रतिपत्रचारित्रत्वादिति ॥
व्याख्यातं महर्द्धिकद्वारम् । अधुना “उट्ठ निवेसने य" इति व्याख्यानयति[मा.६२१४] मिउबंधेहि तहानं, जतिजह सा सयं तु उद्देति ।
उव्वरग सत्थरहिते, बाहि कुडंडे असुन्नं च ॥ वृ-मृदुबन्धैस्तथा "णं" इति तां क्षिप्तचित्तां 'यमयन्ति' बध्नन्ति यथा सा स्वयमुत्तिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वाद् निविशते च । तथा सा तस्मिन्नपवरके स्थाप्यते यत्र न किमपि शस्त्रभवति, यतःसा क्षिप्तचित्ततयायुक्तमयुक्तवाऽजानतीशस्त्रटवातेनाऽऽत्मानं व्यापादयेत्। तस्य चापवरकस्य द्वारंबहि: 'कुडण्डेन' वंशटोक्करादिनाबध्यते येन ननिर्गत्यापगच्छति।तथा अशून्यं यथा भवति एवं सा वारेण वारेण प्रतिजागर्यते, अन्यथा शून्यमात्मानमुपलभ्य बहुतरं क्षिप्तचित्ता भूयात् ।। [भा.६२१५] उव्वरगस्स उ असती, पुवकतऽसती य खम्मते अगडो।
तस्सोवरिं च चक्कं, न छिवति जह उप्फिडंती वि ॥ वृ-अपवरकस्य असति' अभावे पूर्वकृते' पूर्वखातेकूपेनिर्जलेसाप्रक्षिप्यते।तस्याभावेऽवटो नवः खन्यते, खनित्वा च तत्र प्रक्षिप्यते । प्रक्षिप्य च तस्यावटस्योपरि 'चक्र' रथाङ्गं स्थगनाय तथा दीयते यथा सा 'उत्स्फिटन्त्यपि' उल्ललयन्त्यपि तच्चक्रं 'नच्छुपति' न स्पृशति ।
साम्प्रतं "आहार विगिचणा" इत्यादि व्याख्यानयति[भा.६२१६] निद्ध महुरं च भत्तं, करीससेज्जा य नो जहा वातो।
देविय धाउक्खोभे, नातुस्सग्गो ततो किरिया ॥ वृ-यदि वातादिनाधातुक्षोभोऽस्याः सातः' इति ज्ञायते तदाभक्तमपथ्यपरिहारेण स्निग्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org