Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1426
________________ उद्देशकः ६, मूल-२०५, [भा. ६२०७] ३७५ गच्छन् दर्श्यते, यथा-यतस्त्वं बिभेषि सहस्ती 'नश्यति नश्यन् वर्तते ततः कथं त्वमेवं भीरोरपि भीरुर्जाता? । तथा या गर्जितं श्रुत्वा भयमग्रहीत् तं प्रति उच्यते- स्थविरा नभसि शुष्कं चर्म विकर्षति; एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति । तथा यदि अग्नेः स्तम्भनंन ज्ञायते तदा 'द्वयोः' अग्नौ विद्युतिच भयंप्रपन्नायाअलातचक्रपुनः पुनरकस्माद् दयते यावदुभयोरपि भयं जीर्णं भवति ।। अथ वादे पराजयादपमानतः क्षिप्तचित्तीभूताया यतनामाह[मा.६२०८] एईए जिता मि अहं, तं पुन सहसा न लक्खियं नाए। धिक्कतकतितव लज्जाविताए पउणायई खुड्डी। [भा.६२०९] तह विय अठायमाणे, सारक्खमरक्खणे य चउगुरुगा। आणाइणो य दोसा, विराधन इमेहिं ठाणेहिं॥ वृ-यथा चरिकयासापराजिता साप्रज्ञाप्यते यथोक्तंप्राकाततः साऽऽगत्य वदति-एतयाऽहं वादे जिताऽस्मि, 'तत् पुनः' स्वयंजयनमनया सहसा न लक्षितम्, ततो मे लोकस्य पुरतो जयप्रवादोऽभवत् । एवमुक्ते सा चरिका धिक्कृतं-धिक्कारस्तत्कैतवेन-तद्व्याजेन 'लज्जाप्यते' लज्जां ग्राह्यते, लज्जां च ग्राहिता सती साऽपसार्यते । ततः क्षिप्ता भण्यते-किमिति त्वमपमानं गृहीतवती? वादे हि ननु त्वयैषां पराजिता, तथा च त्वत्समक्षमेव एषा धिक्कारं ग्राहितेति । एवं यतनायां क्रियमाणायां यदि साक्षुल्लिका प्रगुणीभवतिततः सुन्दरम् ।। तथापिच एवं यतनायामपि चक्रियमाणायाम् 'अनवतिष्ठति' अनिवर्तमाने क्षिप्तचित्तत्वेसंरक्षणं वक्ष्यमाणयतनया कर्तव्यम्। अरक्षणे प्रायश्चित्तं चत्वारोगुरुकाः,आज्ञादयश्च दोषाः, विराधना चामीभि स्थानैः' प्रकारैर्भवति। तान्येवाह{भा.६२१०] छक्कायाण विराधन, झामण तेने निवायणे चेव। अगड विसमे पडेज्ज व, तम्हा रक्खंति जयणाए। वृतथा क्षिप्तचित्तया इतस्ततः परिभ्रमन्त्या पन्नां कायानां-पृथिवीकयिकादीना विराधना क्रियते । 'ध्यामनं' प्रदीपनकं तद वा कुर्यात् । यदि वास्तैन्यम्, अथवा निपातनमात्मनः परस्य वा विधीयते । अवटे' कूपेऽथवाऽन्यत्र विषमे पतेत् । तदेवमसंरक्षणे इमे दोषास्तस्माद् रक्षन्ति 'यतनया' वक्ष्यमाणया।साम्प्रतमेनामेव गाथां व्याचिख्यासुराह[भा.६२११] सस्सगिहादीणि दहे, तेनेज व सा सयं व हीरेजा। मारण पिट्टणमुभए, तद्दोसा जंच सेसाणं । वृ-सस्य-धान्यंतभृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहा-ऽऽपणादिपरिग्रहः, 'दहेत्' क्षिप्तचित्ततयाऽग्निप्रदानेन भस्मसात्कुर्यात्, एतेन ध्यामनमिति व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात्, किमुक्तं भवति?-सा क्षिप्तचित्तत्वेन परवशाइव स्वयमात्मानं मारयेत् पिट्टयेद्वा, यदि वा परं मारयेत् पिट्टयेद्वा, सा वा परेण मार्यते पिट्यते वेति । “तद्दोसा जंच सेसाणं" इति तस्याः-क्षिप्तचित्ताया दोषाद् यच्च शेषाणां' साध्वीनां मारणं पिट्टनं वा । तथाहिसा क्षिप्तचित्ता सती यदा व्यापादयति पिट्टयति तदा परे स्वरूपमजानानाः शेषसाध्वीनामपि घात-प्रहारादिकं कुर्युतनिमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम्।शेषाणितुस्थानानि सुगमानीति न व्याख्यातानि ।। यदुक्तं “तस्माद् क्षन्ति यतनया" इति तत्र यतनामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500