Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1424
________________ उद्देशकः ६, मूलं-२०५, [भा.६१९७] ३७३ वक्ष्ये समासेन ॥ [भा.६१९८] जियसत्तू य नरवती, पव्वज्जा सिक्खणा विदेसम्मी। काऊण पोतणम्मि, सव्वायं निबुतो भगवं॥ वृ-जितशत्रु म नरपति । तस्य प्रव्रज्याऽभवत्, धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यांस प्रतिपत्रवानित्यर्थः । प्रव्रज्यानन्तरंच तस्य 'शिक्षणा' ग्रहणशिक्षा आसेवनाशिक्षाच प्रवृत्ता। कालान्तरेचस विदेशं गतः । पोतनपुरेच परतीर्थिभिसह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः' मुक्तिपदवीमधिरूढः॥ [मा.६१९९] एक्का य तस्स भगिनी, रजसिरि पयहिऊण पव्वइया । भातुयअनुराएणं, खेत्ता जाता इमा तु विही । वृ- एका च 'तस्य' जितशत्रो राज्ञो भगिनी भ्रातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रातुरनुरागेण 'क्षिप्ता' अपहतचित्ताजाता तत्रच 'अयम्' अनुशिष्टिरूपस्तस्याः प्रगुणीकरणे विधि ॥ तमेवाह[भा.६२००] तेलोक्कदेवमहिता, तित्थगरा नीरता गता सिद्धिं । थेरा विगता केई, चरण-गुणपभावगा धीरा ।। वृ-तस्या भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनामियं देशना कर्तव्या, यथामरणपर्यवसानोजीवलोकः । तथाहि येतीर्थकराभगवन्तः त्रैलोक्यदेवैः-त्रिभुवननिवासिभिर्भवनपत्यादिभि महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गौतमस्वामिप्रभृतयः 'चरण गुणप्रभावकाः' चरण-चारित्रं गुणःज्ञत्रानं ताभ्यां जिशासनस्य प्रभावकाः 'धीराः' महास्ता देव-दानवैरप्यभोक्ष्याः सिद्धिं गताः । तयदिभगवतामपि तीर्थकृतांमहतामपिचमहर्षीणामीशी गतिस्ततः का कथाशेषजन्तूनाम्? तस्मादेताशीं संसारस्थितमनुचिन्त्य न शोकः कर्तव्य इति ॥ तथा[भा.६२०१] बंभी य सुंदरी या, अन्ना वि य जाउ जोगजेट्ठाओ। ताओ वि अकालगया, किं पुन सेसाउ अज्जाओ।। वृ-सुगमा॥अन्यच्च[भा.६२०२] नहु होति सोतियव्यो, जो कालगतो दढो चरितम्मि। सो होति सोतियल्वो, जो संजमदुब्बलो विहरे।। वृ-“न हु" नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ।।कतम्? इत्याह[भा.६२०३] जो जह व तह व लद्धं, भुंजति आहार-उवधिमादीयं । समणगुणमुक्कजोगी, संसारपवडतो होति ॥ वृ-यो नाम यथा वा तथा वा, दोषदुष्टकतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं । 'भुङ्क्ते' उपभोग-परिभोगविषयीकरोति स श्रमणानां गुणाः-मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः-परित्यक्तास्तद्रहिता ये योगा:-मनो-वाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500