________________
३५०
बृहत्कल्प-छेदसूत्रम् -३-६/१९६
[भा.६०८७] वच्चह एगंदव्वं, घेच्छं नेगगह पुच्छितो भणती ।
गहणं तु लक्खणं पोग्गलाण नऽन्नेसि तेनेगं । वृ-कोऽपिसाधुर्भिक्षार्थं गच्छन् कमपिसाधुंभणति-व्रजावो भिक्षायाम्; सप्राह-व्रजत यूयम् अहमेकमेवद्रव्यं ग्रहीष्यामि; एवमुक्त्वा भिक्षांपर्यटन्अनेकानाम्-ओदन-द्वितीयाङ्गादीनांबहूनां द्रव्याणां ग्रहण कुर्वन् साधुभि पृटो भणति-“गहणं तु" इत्यादि, गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्तिकायः, अवगाहलक्षण आकाशास्तिकायः, उपयोगलक्षणोजीवास्तिकायः, ग्रहणलक्षणः, पुद्गलास्तिकायः, एषां च पञ्चानां द्रव्याणां मध्यात् पुद्गलानामेव ग्रहणरूपं लक्षणम् नान्येषां धर्मास्तिकायादीनाम्, तेनाहमेकमेव द्रव्यं गृह्णामि न बहूनीति ।। व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्द्धम् । अथ “पडियाखित्तागमणं, पडियास्वित्ता यभुंजणय'त्तिपश्चार्द्ध व्याख्यायते-'प्रत्याख्याय' 'नाहं गच्छामि' इति प्रतिषिध्य गमनं करोति, 'प्रत्याख्याय च' 'नाहं भुजे' इति भणित्वा भुङ्क्ते; अपरेण च साधुना पृष्टो ब्रवीति-गम्यमानं गम्यते नागम्यमानम्, भुज्यमानमेव भुज्यते नाभुज्यमानम् । अनेन च पश्चाद्धे गमनद्वार-प्रत्याख्यानद्वारे व्याख्याते इतिप्रतिपत्तव्यम् । इहचसर्वत्रापिप्रथमवारंभणतो मासलघु। अथाभिनिवेशेन तदेव निकाचयति तदा पूर्वोक्तनीत्या पाराञ्चिकं यावद् द्रष्टव्यम् ॥
तदेवं येषु स्थानेष्वलीकं सम्भवति याद्दशी च तत्र शोधिस्तदभिहितम् । सम्प्रति 'येऽपाया सापवादाः' इति द्वारम्-तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सहासङ्खडाधुत्पत्तेः संयमा-ऽऽत्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्याः । अपवादपदं तु पुरस्ताद् भणिष्यते । गतमलीकवचनम् । अथ हीलितादीन्यभिधित्सुः प्रथमतः प्रायश्चित्तमतिदिशति[भा.६०८८] एमेव य हीलाए, खिंसा-फरुसवयणं च वदमाणो।
गारथि विओसविते, इमंच जंतेसि नाणतं। एवमेवहीलावचनंखिंसावचनंपरुषवचनमगारस्थवचनं व्यवशमितोदीरणवचनंचवदतः प्रायश्चित्तं मन्तव्यम् । यच्च तेषां नानात्वं तद् इदं भवति॥ [भा.६०८९] आदिल्लेसुंचउसु वि, सोही गुरुगाति भिन्नमासंता।
पणुवीसतो विभाओ, विसेसितो बिदिय पडिलोमं॥ वृ'आदिमेषु चतुर्ध्वपि' हीलित-खिसित-परुष-गृहस्थवचनेषु शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या । तद्यथा-आचार्य आचार्य हीलयति चतुर्गुरु १ उपाध्यायं भिन्नमासः ५। एतान्याचार्यस्य तपः-कालाभ्यां गुरुकाणि भवन्ति । एते आचार्यस्य पञ्चसंयोगा उक्ताः, उपाध्यायादीनामपि चतुर्णामेवमेव पञ्चपञ्चसंयोगा भवन्ति, सर्वसङ्ख्ययैते पञ्चविंशतिर्भवन्ति ।अतएवाह 'पञ्चविंशतिकः' पञ्चविंशभङ्गपरिमाणोविभागोऽत्रभवति। स च तपः-कालाभ्यां विशेषितः कर्तव्यः । द्वितीयादेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम्, भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः । एवं खिंसित-परुष-गृहस्थवचनेष्वपि शोधिर्मन्तव्या ।।
अथ हीलितवचनं व्याख्याति[भा.६०९०] गणि वायए बहुस्सुए, मेहावाऽऽयरिय धम्मकहि वादी।
अप्पकसाए थूले, तनुए दीहे य मड़हे य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org