________________
उद्देशक : ६, मूलं-१९६, [भा. ६०९०]
३५१ पृ-इह गणि-वाचकादिभिः पदैः सूचयाऽसूचया वा परंहीलयति । सूचया यथा-वयं न गणिवृषभा अतः को नाम गणि-वृषभैः सहास्माकं विरोधः? ।असूचया यथा-कस्त्वं गणीनामसि? किं वा त्वया गणिना निष्पद्यते ?; यद्वा-गणीभवनपित्वं न किञ्चिद् जानासि, केन वा त्वं गणि कृतः? इति।एवं वाचकादिष्वपि पदेषुभावनीयम् । नवरम्-'वाचकः पूर्वगतश्रुतधारी, बहुश्रुतः' अधीतविचित्रश्रुतः, 'मेधावी ग्रहण-धारणा-मर्यादामेधाविभेदातुविधा, 'आचार्य' गच्छाधिपति, 'धर्मकथी वादी च' प्रतीतः । “अप्पकसाए"त्ति बहुकषाया वयम्, को नामाकल्पकषायैः सह विरोधः? । “थूले तणुए"त्तिस्थूशरीरा वयम्, कस्तनुदेहैः सह विरोधः? । “दीहे य डहे य"त्ति दीर्घदेहा वयं सदैवोपनि शिरोघट्टनं प्राप्नुमः, को मडभदेहैः समं विरोधः? । एषा सूचा ।असूचायां तु-बहुकषायस्त्वम्, स्थूलशरीरस्त्वम् इत्यादिकं परिस्फुटमेव जल्पति । एवमसूचया सूचया वा यत् परं हीलयति तदेतद् हीलितवचनम् ॥अथ खिंसितवचनमाह[भा.६०९१] गहियं च अहाघोसं, तहियं परिपिंडियाण संलावो।
अमुएणं सुत्तत्थो, सो वि य उवजीवितुंदुक्खं ।। वृ- एकेन साधुना 'यथाघोषं' यथा गुरुभिरभिलापा भणिताः तथा श्रुतं गृहीतम् । स चैवंगृहीतसूत्रार्थप्रतीच्छकादीन् वाचयति।यदाच प्रतीच्छक उपतिष्ठते तदातस्यजातिकुलादीनि पृष्टवा पश्चात् तैरेव खिंसां करोति । इतश्च अन्यत्र साधूनां परिपिण्डितानां स्वाध्यायमण्डल्या उत्थितानां संलापो वर्तते-कुत्र सूत्रार्थी परिशुद्धौ प्राप्येते ? । तत्रैकस्तं यथाघोषश्रुतग्राहकं साधु व्यपदिशति, यथा-अमुकेन सूत्रार्थो शुद्धौ गृहीतौ परंस 'उपजीवितुं' सेवितुं दुःखं' दुष्करः ।।
कथम्? इत्याह[भा.६०९२] जह कोति अमयरुक्खो, विसकंटगलिवेदितो संतो।
न चइज्जइ अल्लीतुं, एवं सो खिंसमाणो उ ।। वृ- यथा कोऽप्यमृतवृक्षो विषकण्टकवल्लीभिर्वेष्टितः सन् 'आलीतुं' आश्रयितुं न शक्यते एवमसावपि साधुः प्रतीच्छकान् खिंसन् नायितुं शक्यः॥ तथाहि[भा.६०९३] ते खिंसणापरद्धा, जाती-कुल-देस-कम्मपुच्छाहि ।
आसागता निरासा, वच्चंति विरागसंजुत्ता॥ वृ-यस्तस्योपसम्पद्यते तंपूर्वमेव पृच्छति-का तव जाति? किंनामिका माता? को वा पिता? कस्मिन् वा देशे सजातः? किं वा कृष्यादिकं कर्म पूर्वं कृतवान् ?; एवं पृष्ट्वा पश्चात् तान् पठतो हीना-ऽधिकाक्षराधुच्चारणादेः कुतोऽपि कारणात् कुपितस्तैरेव जात्यादिभिः खिंसति । ततः 'ते' प्रतीच्छका जाति-कुल-देश-कर्मपृच्छाभि पूर्वं पृष्टाः ततः खिंसनयाप्रारब्धाः-त्याजिताः सन्तः 'सूत्रार्थौ ग्रहीष्यामः' इत्याशयाऽऽगताः 'निराशाः' क्षीणमनोरथा विरागसंयुक्ताः
"दिट्ठा सि कसेरुमई, अनुभूया सि कसेरुमई।
पीयं च ते पाणिययं, वरितुह नाम न दंसणयं ॥" इति भणित्वा स्वगच्छं व्रजन्ति॥ [भा.६०९४] सुत्त-ऽत्याणं गहणं, अहगं ततो पडिनियत्तो।
जाति कुल देस कम्म, पुच्छति खल्लाड धन्नागं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org