Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 301
________________ शतक ६.-उद्देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतःसत्र. २९१ इत्याद्यच्यते. पृथक्त्वदण्डके विशेषमाह:- अणाहारगाणं' इयादि. जी गन् , एकेन्द्रियांश्च वर्जयन्तीति--जी-केन्द्रियवर्जात्तान् वर्जयित्वा इत्यर्थः. जीवपदे, एकेन्द्रियपदे च 'सपएसा य, अपएसा य ' इत्येवंरूप एक एव भङ्गकः-बहूनां विग्रहगयापनानां सप्रदेशानाम् , अप्रदेशानां च लाभात्. नारकादीनाम् , द्वीन्द्रियादीनां च स्तोतराणाम् उत्पादस्तत्र च एक-यादीनाम् अनाहारकाणां भावात् षड्भङ्गिकासम्भवः-तत्र द्वौ बहुवचनान्तौ, अन्ये तु चधार:-एकवचन-बहुवचनसंयोगात् , केवलैकवचनभगको इह न स्तःपृथक्त्वस्याऽधिकृतत्वादिति. 'सिद्धेहि तियभंगो' ति सप्रदेशपदस्य बहुवचनान्तस्यैव संभवात्. ' भवसिद्धीय, अभवसिद्धीय जहा ओहिय ति अयमर्थः-औघि ..दण्डकवद एतेषां प्रत्येक दण्डकद्वयम् , तत्र च भव्योऽभव्यो वा जीवो नियमात् सप्रदेशः, नारकादिस्तु सप्रदेशः, अप्रदेशो वा; बबस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः. एकेन्द्रियाः पुनः सप्रदेशाश्च, अप्रदेशाश्च इत्येकभङ्गा एवेति. सिद्धपदं तु न वाच्यम् , सिद्धानां भया-ऽभव्यविशेषणाऽनुपपतेरिति. तथा 'नोभवसिद्धिय-नोअभवसिद्धिय' त्ति एतद्विशेषगं जीवादिदण्डकद्वयम् अध्येयम् , तत्र चाऽभिलाप:-'. नोभवसिद्ध य-नोअभवसिद्धिए णं भंते ! जीवे सपएसे, अपएसे ? ' इत्यादि. एवं पृथक्त्वदण्डकोऽपि. केवलमिह जीवपदम् , सिद्धपदं च इति द्वयमेव-नारकादिपदानां 'नोभव्य-नोऽभव्य' विशेषणस्याऽनु पत्तेरिति. इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसतव्यम् , अत एवाऽऽह:-' जीवे सिद्धेहिं तियभंगो' ति संक्षिषु यो दण्ड को तयोईितीयदण्डके जीवादिपदेषु भयकत्रयं भवति, इत्यत आहः-'सनिहि! इत्यादि. तत्र संझिनो जीवाः कालतः 'सप्रदेशाः ' भवन्ति चिरोत्पन्नानपेक्ष्य, उत्पादविरहाऽनन्तरं च एकस्योत्पतौ तत्प्राथम्मे 'सप्रदेशाश्च अप्रदेशश्च ' इति स्यात् , बहूनाम् उत्पत्तिप्राथम्ये तु 'सप्रदेशाश्च अप्रदेशाश्च' इति स्यात्-तदेवं भङ्गत्रयमिति, एवं सर्वपदेषु; केवलमेतयोर्दण्डकयोः एकेन्द्रिय-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, तेषु संज्ञिविशेषणस्याऽसंभव द् इति. 'असन्नी हि ' इत्यादि. अयमर्थः-असंज्ञिषु असंज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग् दर्शितमेव वाच्यम् . पृथिव्यादिप रेषु हि ' सरदेशाच अप्रदेशाश्च' इत्येक एव, सदा बहूनाम् उत्पत्त्या तेषाम् अप्रदेशत्व-बहु वस्याऽपि संभवात्. नैरविकादीनां च व्यन्तरान्तानां संज्ञिनामपि असंज्ञित्वम्-असंज्ञिभ्यः उत्पादाद भूतभावतयाऽवसेयम् , तथा नैरपिकादिषु असंज्ञित्वस्य कादाचित् कत्वेन एकव-बहुत्वसंभव त् श्ड् भङ्गा भवन्ति, ते च दर्शिता एव-एतदेवाऽऽहः- नेरइय-देव-मणुए' इत्यादि. ज्योतिष्काः, वैमानिकाः, सिद्वास्तु न वाच्याः, तेषाम् असंज्ञित्वस्याऽसंभवात्. तथा 'नोसंज्ञि नोऽसंज्ञि'-विशेषणदण्डकयोद्वितीयदण्डके जीव-मनुज-सिद्धपदेषु, उक्तरूपं भङ्गकत्र भवति, तेषु बहूनाम् अवस्थितानां लाभात्, उत्पद्यमानानां च एकादीनां संभवाद्-इति. एतयोश्च दण्डकयो-जीव-मनुजे-सिद्धपदानि एव भवन्ति-नारका दिपदानां 'नोसंज्ञि-नोऽसंज्ञि' इति विशेषणस्याऽघटनाद-इति. सलेश्यदण्डकद्वये औधिकाण्डकवद जीव-- नारकादयो वाच्याः. सलेश्यतायां जीवत्ववद अनादित्वेन विशेषाऽनु-पादकत्वात् केवलं सिद्धपदं नाऽधीयते, सिद्धानाम् अलेश्यत्वादिति. कृष्णलेश्याः, नीललेश्या', कापोतलेयाश्च जीव--नारकादयः प्रत्येक दण्डकद्वयेनाऽऽहारकजीवादिबद् उपयुज्य वाच्वाः, केवलं यस्य जीव-नारकादेरेताः सन्ति स एव वाच्यः, एतदेवाऽऽहः- कण्हलेस्सा' इत्यादि. एताश्च ज्योतिष्क-वैमानिकानां न भवन्ति, सिद्धानां तु सर्वा न भवन्ति इति. तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः. पृथिव्य--वनस्पतिषु पुन. षड् भङ्गाः-यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्नाः, उत्पद्यमानाश्च लभ्यन्ते इति हेतोः सप्रदेशानाम् अप्रदेशानां च एकत्वबहुत्वसंभव इति-एतदेवाऽऽहः- तेउलेस्साए.' इत्यादि. इह नारक-तेजो-वायु-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावाद्-इति. पद्मलेश्या-शुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकाः, एतदेवाऽऽहः'पम्हलेस्सा' इत्यादि. इह च पञ्चेन्द्रियतिर्यग-मनुष्य-वैमानिकपदान्येव वाच्यानि, अन्येषु एतयोरभावाद-इति, अलेश्यदण्डकयोजीव- मनुष्य-सिद्धपदानि एवो व्यन्ते, अन्येषाम् अलेश्यत्वस्याऽसंभवात्-तत्र च जीव-सिद्धयोर्भङ्गकत्रयं तदेव. मनुष्येषु तु षड् भङ्गाः, अलेश्यता प्रतिपन्नानाम् , प्रतिपद्यमानानां च एकादीनां मनुष्याणां संभवेन सप्रदेशत्वे, अप्रदेशवे च एकत्व-बहुत्वसंभवाद इति-इदमेवाऽऽहः- अलेसहि' इत्यादि. सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथनसमयेऽप्रदेश त्वम् , द्वितीयादिषु तु सप्रदेशत्वम् ; . तत्र द्वितीयदण्ड के जीवादिपदेषु त्रयो भङ्गास्तथैव, विकलेन्द्रियेषु तु षट् , यतस्तेषु सासादनसम्परदृष्टय एकादयः पूर्वेत्पन्नाः, उत्पद्यमानाश्च लभ्यन्ते-अतः सप्रदेशत्वा-ऽप्रदेशत्वयोरेकत्व - बहुत्वसंभव इति. एतदेवाऽऽहः-'सम्मादडीहें' इत्यादि. इह एकेन्द्रियपदानि न वाच्यानि-तेषु सम्यग्दर्शनाऽभावादिति. ' मिच्छद्दिट्ठी हैं ' इत्यादि. मिथ्यादृष्टिद्वितीपदण्डके जीवादिपदेषु त्रयो भङ्गा:-मिथ्यात्वं प्रतिपन्नाः बहवः, सम्यक्त्वभ्रंशे तत् प्रतिपद्यमानाश्चैकादयः संभवन्ति इति कृत्वा. एकेन्द्रियपदेषु पुनः 'सप्रदेशाश्च अप्रदेशाश्व ' इत्येक एव-तेष्ववस्थितानाम् , उत्पद्यमानानां च बहूनामेव मावाद् इति. इह च सिद्धाः न वाच्याः तेषां मिथ्यात्वाऽभावादिति. सम्यगमिथ्यादृष्टिबहुत्वदण्डके ' सम्मामिच्छदिट्टी हिँ छन्भंगा' अयमर्थः-सम्यगमिथ्यादृष्टित्वं प्रतिपन्नकाः, प्रतिपद्यमानाश्च एकादयोऽपि लभ्यन्तेइत्यतस्तेषु षड् भङ्गा भवन्ति इति. इह च एकेन्द्रिय-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, असंभवाद् इति. 'संजएहिं ' इत्यादि. संयतेषु संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गाः -संयम प्रतिपन्नानां बहूनाम् , प्रतिपद्यमानानां च एकादीनां भावात् , इह च जीवपद-मनुश्यपदे एव वाच्ये, अन्यत्र संयतत्वाऽभावाद इति, असंयतद्वितीयदण्डके ' असंज एहिं ' इत्यादि. इह असंपतत्वं प्रतिपन्नानां Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358