Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
३३२ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ६:-उद्देशन ८. २. अनन्तरं बादराप्कायादयोऽभिहिताः, ते चाऽऽयुर्बन्धे सति भवन्ति-इत्यायुर्बन्धसूत्रम् , तत्र:-'जातिनामनिहत्ताउए' ति जतिः-एकेन्द्रियजात्यादिः पञ्चधा, सैव 'नाम' इति नामकर्मण उत्तरप्रकृतिविशेषः, जीवपरिणामो या; तेन सह निधत्तं निषिक्तं यद आयुस्तजातिनामनिधत्ताऽऽयु'; निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनाथ रचना-इति. 'गतिनामनिधताउए ' त्ति गतिर्नारकादिका चतुर्धा, शेषं तथैव. 'ठिइनाम निधत्ताउए ' त्ति स्थितिरिति यत् स्थातव्य क्वचिद् विवक्षितभवे जीवेन, आयुःकर्मणा वा; सैव नाम:परिणामो धर्मः स्थितिनामः, तेन विशिष्टं निधत्तं यदाऽऽयुर्दलिकरूपं तत् स्थितिनामनिधत्ताऽयुः अथवा इह सूत्रे जामिनाम गतिनामा5वगाहनानामग्रहणाजाति-गय-वगाहनानां प्रकृतिमात्रमुक्तम् . स्थिति-प्रदेशा ऽनुभागनामग्रहणात् तु तासागेव स्थित्यादय उक्तः, ते च जात्यादिनामसंबन्धित्वाद् नामकर्मरूपा एव-इति नामशब्दः सर्वत्र कमीर्थो घटते इति-स्थितिरूपं नामकर्म स्थितिनाम; लेन सह निवत्तं यद् आयुस्तत् स्थितिनामनिधत्ताऽऽयुरिति. ' ओगाहणानामनिहत्ताउए' त्ति अवगाह ते यस्यां जीवः सा अवगाहना-शरीरम् औदारिकदि, तस्या नाम औदारिकादिशरीरनामकर्म-इत्यवगाहनानाम, अवगाहनारूपो वा नामः परिणामोऽगाहनानामः, तेन सह यनिधत्तमायुस्तद अवगाहनानामनिधत्तायुः. 'पएसनामनिघत्ताउए' त्ति प्रदेशानाम् आयुःकर्मव्याणां नामः तथाविधा परिणतिः प्रदशेनामः, प्रदेशल वा नाम-कर्मविशेष: इत्यर्थ:-प्रदेशनाम; तेन सह निधत्तमायुः-तत् प्रदेशनामनिधत्तायुः इति. 'अणुभागनामनिधताउए' त्ति अनुभागः आयुईव्याणामेव विपाकः-तल्लक्षण एव नामः परिणामः अनुभागनामः, अनुभागरूपं वा नामकर्म अनुभागनाम, तेन सह निधत्तं यद् आयुस्तदनुभागनामनिधत्तायुरिति. अथ किमर्थ जात्यादिनामकर्मणा आयुर्विशेश्यते ? उच्यते:-आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्माद नारकाद्य युरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोषग्राह चाऽऽयुरेव. यस्मादुक्तमिहवः-'मेरहरणं भंते! नेरइएस उववजह, अनेरइए नेरइयेसु उववजह ? गोयमा ! नेरइए नेरइएसु उवरजइ, नो अनेरहए नेरइएसु उबवजह' त्ति. एतदुक्तं भवतिः-नारकाऽऽयुःप्रथम. समयसंवेदन एवं नारका उच्यन्ते, तत्सहचारिणां च पञ्चन्द्रियजासादिनामकर्मणामप्युदय इति. इह चाऽऽयुर्बन्धस्य षड्विधित्वे उपक्षिप्ते यद् आयुषः पड्विधित्वम् उक्तम् , तदाऽऽयुषो बन्धाऽव्यतिरेकाद-बद्धस्यैव चाऽऽयुर्व्यपदेशविषयायादिति. 'दंडओ' ति नेरइयाग भंते ? फरविहे आउयबन्धे पत्ते !' इत्यादिमानिकान्तश्चतुर्विशतिदण्डको वाच्यः, अत एवाहः-'जाब-वेमाणियाणं ति. अथ कर्मविशेषाधिकारात् तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाहः- जीया भो' इत्यादि. 'जातिनामानिहत्त ' त्ति जातिनाम निधतं निषिक्तम् , विशिष्टबन्धं वा कृतं यैस्ते ज.तिनामनिधताः. एवं गतिनामनिधत्ताः. यावत् - करणात् 'ठितिनामनिहत्ता, ओगाहणानामनिहत्ता, पएसनामनिहत्ता, अणुभागनामनिहत्ता' इति दृश्यम् , व्याख्या तथैव, नवरम्:जात्यादिनाम्नां या स्थितिः, ये च प्रदेशाः, यश्चाऽनुभागस्तत् स्थित्यादिनाम-----अवगाहनानाम-----शरीरनाम-इति अयमेको दण्डको वैमानिकान्तः, तथा जातिनामानहत्ताउय' ति जातिनाम्ना सह निधत्तनायुयस्ते जातिनामनिधत्ताऽऽयुषः, एवमन्यान्यपि पदानिः अपमन्यो दण्डका. एकमेते दुवालसदंडग , शि अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वौ आयौ दर्शितावनि संख्यापूरणाय पुनदेवति:- जातिनामनिधता' इत्यादिरेकः, ' ज इनाम निधत्तःउया ' इत्यादि द्वितीयः, 'जीवा णं भंते ! किं जाइन:मनिउत्ता' इत्यादिस्तृतीयः, तत्र जातिनाम नियुक्तं नितरां युक्तं संबद्धं निकाचितम् , वेदने वा नियुक्त यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि. 'जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः, तत्र जातिनाम्ना सह नियुक्तं निकाचितम् , वेदयितुमारब्धं वा आयुर्यरते तथा, एवमन्यान्यपि. 'जाइगोयनिहता' इत्यादिः पञ्चमः, तत्र जाति:-एकेन्द्रियादिकाया, यदुचितं गोत्रम् , नीचैर्गोत्रादि तज्जातिगोत्रम् ; तन्निधत्तं यैस्ते जातिगोत्रनिधत्ताः; एवमन्यान्यपि. 'जाइगोयनिहत्ताउया' इत्यादिः षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुर्थस्ते जातिगोत्रनिधत्ताऽऽयुषः, एवमन्यान्यपि. 'जाइगोयनिउत्ता' इत्यादिः सप्तमः, तत्र जातिगोत्रं नियुक्तं यैस्ते तथा; एवमन्यान्यपि. 'जाइगोयनिउत्ताउया' इत्यादिरष्टमः, तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा; एवमन्यान्यपि. 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः, तत्र जातिनाम, गोत्रं च निधतं यैस्ते तथा; एवमन्यान्यगि'जीवा मते ' किं जाइनामगोयनिहत्ताज्या ?' इत्यादिर्दशमः, तत्र जत्निाम्ना, गोत्रेण च सह निधत्तमायुयैस्ते तथ'; एवमन्यान्यपि. 'जाइनामगोयनिउत्ता' इत्य दिरेकादशः, तत्र जातिनाम, गोत्रं च नियुक्तं यैस्ते तथा; एवमन्यान्यपि. जीवा मंते ! किं जाइनाम-गोयानि उत्ताउया' इत्यादिद्वादशः, तत्र जातिनाम्ना, गोत्रेण च सह नियुक्तमायुर्वस्ते तथा, एवमन्यान्यपि. इह च जात्यादिनाम-गोम्योः, भयुषश्च भवोपप्राहे प्राधान्यख्यागनार्थ यथायोगं जीवा विशेषिताः; वाचानान्तरे आधा एयाऽटौ दण्डका दृश्यन्ते इति.
२. हमणां बादर अप्काय वगेरे कन्या, तेओ, आयुष्यनो बंध थाय त्यारे ज होई शके छे माटे हवे आयुष्यना बंध संबंधी सुत्र कहे थे, तेमाः जाति जाइ-नामनिहत्ताउए ' ति ] जाति एटले एकेद्रियादि पांच प्रकारनी जाति, तेरूप ज जे [' नाम ' इति ] नाम ते जातिनाम, जातिनाम, नाम ए नामकर्मनी एक प्रकारनी उत्तर प्रकृति छ अथवा एक प्रकारनो जीवनो परिणाम छे, तेनी साथै निधत्त-निषिक्त- निषेकने प्राप्त-जे आयु ते निर जातिनामनिधत्तायु' कहेवाय अने प्रतिसमये अनुभववा माटे कर्म पुदलोनी जे रचना ते निषेक केहवाय. [ 'गइनामनिधत्ताउए 'ति]
गति एटले नैरयिक वगेरे चार प्रकारनी गति, बाकीनी व्युत्पत्ति पूर्वनी पेठे ज जाणवी. (ठिश्नामनिधताइए 'ति] कोर पण एक विवक्षित. स्थिति, अमुक-भवमां जीवन रहे, वा कर्मवेडे रहेg ते स्थिति कहेवाय, तेरूप जे नाम-एटले परिणाम-धर्म- तद्विशिष्ट-ते सहित--जे दलिकरूप निधत्व
आयु ते स्थितिनामनिधत्तायु कहेवाय, अथवा आ सूत्रगां जाति नामर्नु, गति नाननु, अने अवगाहना नामर्नु ग्रहण करवाथी जातिनी, गतिनी
१. जूओ भगवती सूत्र, खंड पीने (पृ. २७५-२७८):-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4a616ebe765377ad01be87c28a57d85c7a5082544f4f8bb88b4263588a0979bd.jpg)
Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358