Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 303
________________ शतक ६.-उद्देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. सकृत्प्राप्ताऽनाकारोपयोगं चैकम् आश्रित्य द्वितीयः, उभयेषामपि एकत्वे तृतीय इति. 'सवेयगा य जहा सकसाइ' ति सवेदानामा, जीवादिपदेषु भङ्ग त्रयभावात् एकेन्द्रियेषु चैकभङ्गकसद्भावात् , इह च वेदप्रतिपन्नान् बहून् , श्रेणिभ्रंशे च वेदं प्रतिपद्यमानक.न् एकादीनपक्ष्य भद्गकत्रयं भावनीयम्:-- इवेयगा' इत्यादि. इह वेदाद् वेदान्तरसंक्रन्तौ प्रथमे समयेऽप्रदेशत्वम् , इतेषु च सप्रदेशत्वम् अवगम्य भङ्गकत्रयं पूर्ववद् वाच्यम् . नसकवेददण्डकयोस्तु एकेन्द्रियेषु एको भाक:- सप्रदेशाश्च अप्रदेशाच' इत्येवरूपः प्रागुक्तयुक्तरेवेति. स्त्रीदण्डक पुरुषदण्डकेषु देव-पञ्चेन्द्रियतिर्यग्-मनुभ्यपदान्येव, नपुंसकदण्डकयोस्तु देववानि वाच्यानि; सिद्धपदं च सर्वेष्वपि न वाच्यमिति. ' अयगा जहा अकसाइ' ति जीव-मनुष्य-सिद्धपदेषु भङ्गकत्रयम् अकषायिवद् वाच्यमित्यर्थः. 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत् सशरीरिदण्डकयोजीवपदे सप्रदेशता एव वाच्या, अनादित्वात् सशरीरत्वस्य नारकादिषु तु बहुवे भागकत्रयम् . एकेन्द्रियेषु तृतीयभग इति. 'ओरालिय-वेउन्धिय-सरीराणं जीवे-गिदियवज्जो तिभंगो' त्ति औदारिकादिशरीरसत्वेषु, जीवपदे, एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहुनां तेषु प्रतिपन्नानाम् , प्रतिपद्यमानानां चाऽनुक्षणं लाभात् , शेषेषु भङ्गकत्रयम् . बहूनां तेषु प्रतिपन्नानाम् , तथा औदारिक-बैक्रियत्यागेन औदारिकम् , वैक्रियं च प्रतिपद्यमानानाम् एकादीनां लभात् . इह औदारिकदण्डकयो रकाः, देवाश्च न वाच्याः; वैक्रियदण्डकयोस्तु पृथिव्य-प्-तेजोवनस्पति-विकलेन्द्रिया न वाच्याः. यश्च वैक्रियदण्ड के एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसंख्यातानां प्रतिसमपं वैक्रियकरणमाश्रित्य, तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽत्ये, तथापि भङ्गकत्रयवचनसमा बहूनां वैक्रियाऽवस्थानसंभवः, तथैकादीनां तत् प्रतिपद्यमानता च अवसेया. 'आहारगार इत्यादि. आहारकशरीरे जीव-मनुष्ययोः षड् भङ्ग हाः पूति एव, आहारकशरीरिणाम् अल्पवात्-शेषजीवानां तु तन्न संभवतीति. 'तेयग।' इत्यादि. तैजस-कार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्याः यथा औधिका:-ते एव, तत्र च जीवाः सप्रदेशा एव वाच्याः; अनादित्वात् तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः. एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाऽध्येयम् इति. ' असरीरा' इत्यादि. अशरीरेषु जीवादिपु सप्रदेशतादित्वेन वक्तव्येषु जीव-सिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्र अशरीरत्वस्याऽभावाद् इति. ' आहारपज्जतीए 'इयादि. इह च जीवपदे, पृथिव्यादिपदेषु च बहूनाम् आहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाऽऽहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छता च बहूनामेव लाभात् ' सप्रदेशाश्च अप्रदेश.श्च' इत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति. 'भाता-मण-' इत्यादि. इह भाषामनसोः पर्याप्तिः-भाषा--मनःपर्याप्तिः, भाषा-मनःपर्याप्योस्तु बहुश्रुताऽभिभतेन केनाऽपि कारणेन एकत्वं विवाक्षतम् , ततश्च तया पर्याप्तका यथा संज्ञिनस्तथा सप्रदेशादितया वाच्याः, सपदेषु भङ्गकत्रयमित्यर्थः. पञ्चेन्द्रियपदान्येव चेह वाच्यानि. पर्याप्तीनां च इदं स्वरूपमाहु:-येन करणेन भुक्तमाहारं खलम् , रसं च कर्तुं समर्थो भवति तस्य कर गस्य निष्पत्तिराहारपर्याप्तिः, करणम् , शक्तिरिति पर्यायौ. तथा शरीरपर्याप्तिर्नाम येन करणेन औदारिक-वैक्रिया-ऽऽहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वा औदारिकादिभावेन परिणमयति, तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति. तथा येन करणेन एकादीनाम् इन्द्रयाणां प्रायोग्यानि द्रव्याणि गृहीत्वा आत्मीयान् विषयान् ज्ञातुं समर्थो भवति, तस्य करणस्य निर्वृत्तिरिरिन्द्रियपर्याप्तिः. तथा येन करणेनाऽऽन-प्राणवायोग्यानि द्रव्याणि अवलम्ब्य अवलम्ब्य आन-प्राणतया निःस्रष्टुं समर्थो भवति, तस्य करणस्य निर्वृत्ति:-आन-प्राणपर्याप्तिरिति. तथा येन करणेन स .यादिभाषायाः प्रायोग्यानि द्रव्याणि अवलम्ब्याऽवलम्ब्य चतुधभाषया परिणमय्य भाषानिसर्जनसमर्थो भवति, तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः. तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्यःणि गृहीत्वा मननसमर्थो भवति, तस्य करणस्य निष्पतिर्मनःपर्याप्तिरिति. 'आहारअपज्जत्तीए' इत्यादि. इह जीवपदे, पृथिव्य दिपदेषु च 'सप्रदेशाश्च अप्रदेशाश्च इत्येक एव भङ्गकः-अनवरतं विग्रहगतिमतामहाराऽपर्याप्तिमतां बहुना लाभात्. शेषेषु च षड् भङ्गाः पूर्वोक्ता एव-आहारापर्याप्तिमतामल्पत्य.त्. ' सरीरअपज्जत्तीए ' इत्यादि. इह जीवेषु, एकेन्द्रियेषु, च एक एव भङ्गः, अन्यत्र तु त्रयम्-शरीराद्यपर्याप्तिकानां कालतः सप्रदेशानां सदैव लाभात् , अप्रदेशानां च कदाचिद् एकादीनां च लाभात् . नारक-देव-मनुष्येषु च षड् एव इतेि. 'भासा' इत्य.दि. भाषा-मनोऽपर्याप्या अपर्याप्तकाते येषां जातितो भाषा-मनोयोग्यत्वे सति तदसिद्धिः-ते च पञ्चेन्द्रिया एव, यदि पुनर्भापा-मनसोर भावनात्रेण तदपर्याप्त का अभ वेध्यस्तदा एकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात् , उच्यते चः- जीवाइओ तियभंगो 'त्ति तत्र जीवेषु, पञ्चन्द्रियतियक्षु च बहूनां तदपतिं प्रतिपन्नानाम् , प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयम् . ' नेरइय-देव मणुएसु छम्भंग ' ति नैरयिकादिषु मनोऽपर्याप्तकानाम् अल्पतरत्वेन सप्रदेशा-ऽप्रदेशानाम् एकादीनां लाभ.त् त एव षड् भङ्गाः एषु च पर्याप्य-पर्यप्तिदण्डकेषु सिद्धपदं नाऽध्येयम्-असंभवाद-इति. पूर्वोक्तद्वाराणां संग्रहगाथा:-'सपएसा ' इत्यादि. 'सपएस 'त्ति कालतो जीवाः सप्रदेशाः, इतरे च एकत्व-बहुत्वाभ्यामुक्ताः. 'आहारग' त्ति आहारकाः, अनाहारकाश्च तथैव. ' भग्यि'ति भव्याः, अभव्याः, उभयनिषेधाश्च तथैव. 'सन्नि' त्ति संज्ञिनः, असंज्ञिनः, द्वनिषेधवन्तश्च तथैव. ' लेस' सलेश्या:-कृष्णादिलेश्याः, अलेक्याश्च तथैव, दिहि' त्ति दृग् दृष्टिः-सम्यग्दृष्ट्यादिका, तद्वन्तस्तथैव. संजय ' त्ति संयताः, असंयताः, मिश्राः, त्रयनिषेधिनश्च तथैव. ' कसाइ' त्ति कषायणः क्रोधादिमन्तः, अकषायाश्च तथैव. नाणे ' ति ज्ञानिन:-आभिनिबोधिकादिज्ञानिनः, अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358