Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 302
________________ २९२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ६.-उद्दशेक ४. बहूनाम् , संयतत्वादिप्रतिपातेन तत् प्रतिपद्यमानानां च एकादीनां भावाद भङ्गकत्रयम् , एकेन्द्रियाणां तु पूर्वोक्तयुक्या 'सप्रदेशाश्च अप्रदेशाश्च' इत्येक एव भङ्ग इति. इह सिद्धपदं नाऽध्येयम्-असंभव. इति. संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं ' इयादि. इह देशविरतिं प्रतिपन्नानां बहूनाम् , संयमाद असंयमाद वा निवृत्य तां प्रतिपद्यमानानां च एकादीनां भावाद भङ्गगकत्रयसंभवः, इह च जीवपञ्चेन्द्रियतिर्यग्-मनुष्यपदानि एवाऽध्येयानि, तदन्यत्र संयतासंयतत्वस्याऽभावादिति. 'नोसंजए' इत्यादौ सैव भावना, नवरम्:-इह जीव-सिद्धपदे एव वाच्ये, अत एवोक्तम्:-'जीव-सिद्धेहिं तियभंगो' ति 'सकसाईहिं जीवाईओ तियभंगो 'त्ति अयमर्थः-सकषायाणां सदाऽवस्थितत्वात् ते — सप्रदेशाः ' इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानवे सकषायत्वं प्रतिपद्यनाना एकादयो लभ्यन्ते, ततश्च ' सप्रदेशाश्च अप्रदेशश्च, ' तथा 'सप्रदेशाश्च अप्रदेशाश्च' इत्यपरभाकद्वयमिति. नारकादिषु प्रतीतमेव भङ्गकत्रयम्. 'एगिदिएसु अभंगयं' ति भनकानाम्-अभावोऽभङ्गकम् , ' सप्रदेशःश्च अप्रदेशाश्व' इत्येक एव विकल्प इत्यर्थः, बहूनाम् अवस्थितानाम् , उत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धादं नाऽध्येयम् , अायित्वात् . एवं क्रोधादिदण्डकेष्वपि'कोहकसाईहिं जीवे-गिदियवजो तियभंगो' ति अयमर्थः-क्रोधकषाय-द्वितीयदण्डके जीवपदे, पृथिव्यादिपदेषु च 'सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव भङ्गः, शेषेषु तु त्रयः ननु सकषायिजीवपदवत् कथमिह भङ्गत्रयं न लभ्यते ! उच्यते:-इह मान-माया-लोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते-प्रत्येकं तद्राशीनामनन्तत्वाद्, न तु एकादयः-यथा उपशमश्रेणीतः प्रच्यवमाना: सकषायित्वं प्रतिपत्तार इति. 'देवेहि छन्भंग' ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामत्यतेन एकत्वे, बहुत्वे च सप्रदेशा-ऽप्रदेशत्वयोः संभवादिति. मानकषायि-मायाकष यिद्वितीयदण्डके ' नेरइय-देवेहिं छब्भंग' ति नारकाणाम् , देवानां च मध्येऽल्पा एव मान-मायोदयवन्तो भवन्ति-इति पूर्वोक्तन्यायात् षट् भङ्गा भवन्ति-इति. 'लोह कसाईहि जीवेगिदियवज्जो तियभंगो' त्ति एतस्य क्रोधसूत्रबद् भावना. ' नेरइएहिं छभंग' ति नारकाणां लोभोदयवताम् अल्पत्व त् पूर्वोक्ताः षड् भङ्गा भान्ति-इति. आह चः-" कोहे माणे माया बोधव्वा सुरगणेहिं छब्भंगा, माणे माया लोभे नेरइएहि पि छब्भंग'." देवा लोभप्रचुराः, नारकाः क्रोधप्रचुरा इति. अकषायिद्वितीयदण्डके जीव-मनु-य-सिद्धपदेषु भङ्गत्रयम् , अन्येषाम् असंभवात् , एतदेवाऽऽहः- अकसाई' इत्यादि. 'ओहियणाणे, आभिनिबोहियणाणे, सुयणाणे जीवाईओ तियभंगो' ति अधिकज्ञानं मत्यादिभिरविशेषितम् , तत्र मतिश्रतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषुत्रयो भङ्गाः पूर्वोक्ता भवन्ति. तत्र औधिकज्ञानि-मति-श्रुाज्ञानिनां सदाऽवस्थित्वेन सप्रदेशानां भावात् 'सप्रदेशाः' इत्येकः. तथा मिथ्याज्ञानाद् मत्यादिज्ञानमात्रम् , मत्यज्ञानाद् मतिज्ञानम् , श्रुताऽज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानाम् एकादीनां लाभात् ' सप्रदेशश्च अप्रदेशाश्च' तथा ' सप्रदेशाश्च अप्रदेशाश्व ' इति द्वौ, एवं त्रयमिति. 'बिगलिं दिएहिं छब्भंग 'त्ति द्वि-त्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसंभवेन आभिनिबोधिकादिज्ञानिनाम् एकादीनां संभवात् त एव षड् भङ्गाः इह च यथायोगं पृथिव्यादयः, सिद्धाश्च न वाच्याः, असंभवात् इति . एवम् अवध्यादिषु अपि भङ्गत्रयभावना, केवलम्-अवधिदण्डकयोरेकेन्द्रिय-विकलेन्द्रियाः, सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवाः, मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीव-मनुष्य-सिद्धा वाच्याः. अत एव वाचनाऽन्तरे दृश्यते--विष्णेयं जस्स जं अस्थि 'ति. ' ओहिए अनाणे ' इत्यादि. सामान्येऽज्ञाने-मत्यज्ञानादिभिरविशेषिते, मत्यज्ञाने, श्रुताज्ञाने च जीवादिषु त्रिभनी भवति-एते हि सदाऽवस्थितत्वात् 'सप्रदेशाः' इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदा एकादिसंभवेन 'सप्रदेशाश्च अप्रदेशश्च' इत्यादि भङ्गकद्वयम् , इत्येवं भङ्गकत्रयमिते. पृथिव्यादिषु तु 'सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव इत्यत आह:-'एगिदियवज्जो तियभंगो'ति इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयम् , तद्भावना च मत्यज्ञानादिवत् , केवलमिह एकेन्द्रिय-विकलेन्द्रियाः, सिद्धाश्च न वाच्या इति. 'सजोई जहा ओहिय' त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो औधिको जीवादिः, स च एवम्:-सोगी जीवो नियमात् सप्रदेशः, नारकादिस्तु सप्रदेशः, अप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गवन्त इति. इह सिद्धपदं नाऽध्येयम् . ' मणजोई ' इत्यादि. मनोयोगिनो योगत्रयवन्तः-संज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः-एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना चः-मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच मनोयो गत्वाद्यत्पादेनाऽप्रदेशत्वलाभेऽन्यभङ्गकद्वयमिति. नवम्:-काययोगिनो ये एकेन्द्रियास्तेषु अभङ्गकम्-' सप्रदेशाः अप्रदेशाश्व' इत्येक एव भङ्गक इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासंभवम् अध्येयानि, सिद्धपदं च न वाच्यम् इति. 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽपि अलेश्यसमवक्तव्यत्वात् तेषाम् , ततो द्वितीयदण्डके अयोगिषु जीव-सिद्धपदयोर्भङ्गकत्रयम् , मनुष्येषु च षभङ्गी इति. ' सागार' इत्यादि. साकारोपयुक्तेषु, अनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु ' सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव. तत्र चाऽन्यतरोपयोगाद् अन्यतरगमने प्रथमे-तरसमयेषु अप्रदेशत्व-सप्रदेशत्वे भावनीये; सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्य, इतरस्य चोपयोगस्याऽसकृत् प्राप्या सप्रदेशत्वम् , सकृत् प्राप्या चाऽप्रदेशत्वम् अवसेयम् ; एवं चाऽसकृदवाप्तसा. कारोपयोगान् बहूनाऽऽश्रित्य 'सप्रदेशाः' इत्येको भङ्गः, तानेव, सकृदवाप्तसाकारोपयोगं च एकमाश्रित्य द्वितीयः, तथा तानेव, सकृदवाप्तसाकारोपयोगांश्च बहून् अधिकृत्य तृतीयः; अनाकारोपयोगे तु असकृतप्राप्ताऽनाकारोपयोगान् आश्रित्य प्रथमः, तानेव, १.५० छा:-क्रोघे माने मायायां योद्धव्याः सुरगणैः पर महाः, माने मायायां लोमे नैरयिकैरपि षन भङ्गाः-अनु For Private & Personal Use Only Jain Education International www.jainelibrary.org.

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358