________________
शतक ६.-उद्देशक ४.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
सकृत्प्राप्ताऽनाकारोपयोगं चैकम् आश्रित्य द्वितीयः, उभयेषामपि एकत्वे तृतीय इति. 'सवेयगा य जहा सकसाइ' ति सवेदानामा, जीवादिपदेषु भङ्ग त्रयभावात् एकेन्द्रियेषु चैकभङ्गकसद्भावात् , इह च वेदप्रतिपन्नान् बहून् , श्रेणिभ्रंशे च वेदं प्रतिपद्यमानक.न् एकादीनपक्ष्य भद्गकत्रयं भावनीयम्:-- इवेयगा' इत्यादि. इह वेदाद् वेदान्तरसंक्रन्तौ प्रथमे समयेऽप्रदेशत्वम् , इतेषु च सप्रदेशत्वम् अवगम्य भङ्गकत्रयं पूर्ववद् वाच्यम् . नसकवेददण्डकयोस्तु एकेन्द्रियेषु एको भाक:- सप्रदेशाश्च अप्रदेशाच' इत्येवरूपः प्रागुक्तयुक्तरेवेति. स्त्रीदण्डक पुरुषदण्डकेषु देव-पञ्चेन्द्रियतिर्यग्-मनुभ्यपदान्येव, नपुंसकदण्डकयोस्तु देववानि वाच्यानि; सिद्धपदं च सर्वेष्वपि न वाच्यमिति. ' अयगा जहा अकसाइ' ति जीव-मनुष्य-सिद्धपदेषु भङ्गकत्रयम् अकषायिवद् वाच्यमित्यर्थः. 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत् सशरीरिदण्डकयोजीवपदे सप्रदेशता एव वाच्या, अनादित्वात् सशरीरत्वस्य नारकादिषु तु बहुवे भागकत्रयम् . एकेन्द्रियेषु तृतीयभग इति. 'ओरालिय-वेउन्धिय-सरीराणं जीवे-गिदियवज्जो तिभंगो' त्ति औदारिकादिशरीरसत्वेषु, जीवपदे, एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहुनां तेषु प्रतिपन्नानाम् , प्रतिपद्यमानानां चाऽनुक्षणं लाभात् , शेषेषु भङ्गकत्रयम् . बहूनां तेषु प्रतिपन्नानाम् , तथा औदारिक-बैक्रियत्यागेन औदारिकम् , वैक्रियं च प्रतिपद्यमानानाम् एकादीनां लभात् . इह औदारिकदण्डकयो रकाः, देवाश्च न वाच्याः; वैक्रियदण्डकयोस्तु पृथिव्य-प्-तेजोवनस्पति-विकलेन्द्रिया न वाच्याः. यश्च वैक्रियदण्ड के एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसंख्यातानां प्रतिसमपं वैक्रियकरणमाश्रित्य, तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽत्ये, तथापि भङ्गकत्रयवचनसमा बहूनां वैक्रियाऽवस्थानसंभवः, तथैकादीनां तत् प्रतिपद्यमानता च अवसेया. 'आहारगार इत्यादि. आहारकशरीरे जीव-मनुष्ययोः षड् भङ्ग हाः पूति एव, आहारकशरीरिणाम् अल्पवात्-शेषजीवानां तु तन्न संभवतीति. 'तेयग।' इत्यादि. तैजस-कार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्याः यथा औधिका:-ते एव, तत्र च जीवाः सप्रदेशा एव वाच्याः; अनादित्वात् तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः. एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाऽध्येयम् इति. ' असरीरा' इत्यादि. अशरीरेषु जीवादिपु सप्रदेशतादित्वेन वक्तव्येषु जीव-सिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्र अशरीरत्वस्याऽभावाद् इति. ' आहारपज्जतीए 'इयादि. इह च जीवपदे, पृथिव्यादिपदेषु च बहूनाम् आहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाऽऽहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छता च बहूनामेव लाभात् ' सप्रदेशाश्च अप्रदेश.श्च' इत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति. 'भाता-मण-' इत्यादि. इह भाषामनसोः पर्याप्तिः-भाषा--मनःपर्याप्तिः, भाषा-मनःपर्याप्योस्तु बहुश्रुताऽभिभतेन केनाऽपि कारणेन एकत्वं विवाक्षतम् , ततश्च तया पर्याप्तका यथा संज्ञिनस्तथा सप्रदेशादितया वाच्याः, सपदेषु भङ्गकत्रयमित्यर्थः. पञ्चेन्द्रियपदान्येव चेह वाच्यानि. पर्याप्तीनां च इदं स्वरूपमाहु:-येन करणेन भुक्तमाहारं खलम् , रसं च कर्तुं समर्थो भवति तस्य कर गस्य निष्पत्तिराहारपर्याप्तिः, करणम् , शक्तिरिति पर्यायौ. तथा शरीरपर्याप्तिर्नाम येन करणेन औदारिक-वैक्रिया-ऽऽहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वा औदारिकादिभावेन परिणमयति, तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति. तथा येन करणेन एकादीनाम् इन्द्रयाणां प्रायोग्यानि द्रव्याणि गृहीत्वा आत्मीयान् विषयान् ज्ञातुं समर्थो भवति, तस्य करणस्य निर्वृत्तिरिरिन्द्रियपर्याप्तिः. तथा येन करणेनाऽऽन-प्राणवायोग्यानि द्रव्याणि अवलम्ब्य अवलम्ब्य आन-प्राणतया निःस्रष्टुं समर्थो भवति, तस्य करणस्य निर्वृत्ति:-आन-प्राणपर्याप्तिरिति. तथा येन करणेन स .यादिभाषायाः प्रायोग्यानि द्रव्याणि अवलम्ब्याऽवलम्ब्य चतुधभाषया परिणमय्य भाषानिसर्जनसमर्थो भवति, तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः. तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्यःणि गृहीत्वा मननसमर्थो भवति, तस्य करणस्य निष्पतिर्मनःपर्याप्तिरिति. 'आहारअपज्जत्तीए' इत्यादि. इह जीवपदे, पृथिव्य दिपदेषु च 'सप्रदेशाश्च अप्रदेशाश्च इत्येक एव भङ्गकः-अनवरतं विग्रहगतिमतामहाराऽपर्याप्तिमतां बहुना लाभात्. शेषेषु च षड् भङ्गाः पूर्वोक्ता एव-आहारापर्याप्तिमतामल्पत्य.त्. ' सरीरअपज्जत्तीए ' इत्यादि. इह जीवेषु, एकेन्द्रियेषु, च एक एव भङ्गः, अन्यत्र तु त्रयम्-शरीराद्यपर्याप्तिकानां कालतः सप्रदेशानां सदैव लाभात् , अप्रदेशानां च कदाचिद् एकादीनां च लाभात् . नारक-देव-मनुष्येषु च षड् एव इतेि. 'भासा' इत्य.दि. भाषा-मनोऽपर्याप्या अपर्याप्तकाते येषां जातितो भाषा-मनोयोग्यत्वे सति तदसिद्धिः-ते च पञ्चेन्द्रिया एव, यदि पुनर्भापा-मनसोर भावनात्रेण तदपर्याप्त का अभ वेध्यस्तदा एकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात् , उच्यते चः- जीवाइओ तियभंगो 'त्ति तत्र जीवेषु, पञ्चन्द्रियतियक्षु च बहूनां तदपतिं प्रतिपन्नानाम् , प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयम् . ' नेरइय-देव मणुएसु छम्भंग ' ति नैरयिकादिषु मनोऽपर्याप्तकानाम् अल्पतरत्वेन सप्रदेशा-ऽप्रदेशानाम् एकादीनां लाभ.त् त एव षड् भङ्गाः एषु च पर्याप्य-पर्यप्तिदण्डकेषु सिद्धपदं नाऽध्येयम्-असंभवाद-इति. पूर्वोक्तद्वाराणां संग्रहगाथा:-'सपएसा ' इत्यादि. 'सपएस 'त्ति कालतो जीवाः सप्रदेशाः, इतरे च एकत्व-बहुत्वाभ्यामुक्ताः. 'आहारग' त्ति आहारकाः, अनाहारकाश्च तथैव. ' भग्यि'ति भव्याः, अभव्याः, उभयनिषेधाश्च तथैव. 'सन्नि' त्ति संज्ञिनः, असंज्ञिनः, द्वनिषेधवन्तश्च तथैव. ' लेस' सलेश्या:-कृष्णादिलेश्याः, अलेक्याश्च तथैव, दिहि' त्ति दृग् दृष्टिः-सम्यग्दृष्ट्यादिका, तद्वन्तस्तथैव. संजय ' त्ति संयताः, असंयताः, मिश्राः, त्रयनिषेधिनश्च तथैव. ' कसाइ' त्ति कषायणः क्रोधादिमन्तः, अकषायाश्च तथैव. नाणे ' ति ज्ञानिन:-आभिनिबोधिकादिज्ञानिनः, अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org