________________
शतक ६.-उद्देशक ४.
भगवत्सुधर्मस्वामिप्रणीत भगवतःसत्र.
२९१
इत्याद्यच्यते. पृथक्त्वदण्डके विशेषमाह:- अणाहारगाणं' इयादि. जी गन् , एकेन्द्रियांश्च वर्जयन्तीति--जी-केन्द्रियवर्जात्तान् वर्जयित्वा इत्यर्थः. जीवपदे, एकेन्द्रियपदे च 'सपएसा य, अपएसा य ' इत्येवंरूप एक एव भङ्गकः-बहूनां विग्रहगयापनानां सप्रदेशानाम् , अप्रदेशानां च लाभात्. नारकादीनाम् , द्वीन्द्रियादीनां च स्तोतराणाम् उत्पादस्तत्र च एक-यादीनाम् अनाहारकाणां भावात् षड्भङ्गिकासम्भवः-तत्र द्वौ बहुवचनान्तौ, अन्ये तु चधार:-एकवचन-बहुवचनसंयोगात् , केवलैकवचनभगको इह न स्तःपृथक्त्वस्याऽधिकृतत्वादिति. 'सिद्धेहि तियभंगो' ति सप्रदेशपदस्य बहुवचनान्तस्यैव संभवात्. ' भवसिद्धीय, अभवसिद्धीय जहा
ओहिय ति अयमर्थः-औघि ..दण्डकवद एतेषां प्रत्येक दण्डकद्वयम् , तत्र च भव्योऽभव्यो वा जीवो नियमात् सप्रदेशः, नारकादिस्तु सप्रदेशः, अप्रदेशो वा; बबस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः. एकेन्द्रियाः पुनः सप्रदेशाश्च, अप्रदेशाश्च इत्येकभङ्गा एवेति. सिद्धपदं तु न वाच्यम् , सिद्धानां भया-ऽभव्यविशेषणाऽनुपपतेरिति. तथा 'नोभवसिद्धिय-नोअभवसिद्धिय' त्ति एतद्विशेषगं जीवादिदण्डकद्वयम् अध्येयम् , तत्र चाऽभिलाप:-'. नोभवसिद्ध य-नोअभवसिद्धिए णं भंते ! जीवे सपएसे, अपएसे ? ' इत्यादि. एवं पृथक्त्वदण्डकोऽपि. केवलमिह जीवपदम् , सिद्धपदं च इति द्वयमेव-नारकादिपदानां 'नोभव्य-नोऽभव्य' विशेषणस्याऽनु पत्तेरिति. इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसतव्यम् , अत एवाऽऽह:-' जीवे सिद्धेहिं तियभंगो' ति संक्षिषु यो दण्ड को तयोईितीयदण्डके जीवादिपदेषु भयकत्रयं भवति, इत्यत आहः-'सनिहि! इत्यादि. तत्र संझिनो जीवाः कालतः 'सप्रदेशाः ' भवन्ति चिरोत्पन्नानपेक्ष्य, उत्पादविरहाऽनन्तरं च एकस्योत्पतौ तत्प्राथम्मे 'सप्रदेशाश्च अप्रदेशश्च ' इति स्यात् , बहूनाम् उत्पत्तिप्राथम्ये तु 'सप्रदेशाश्च अप्रदेशाश्च' इति स्यात्-तदेवं भङ्गत्रयमिति, एवं सर्वपदेषु; केवलमेतयोर्दण्डकयोः एकेन्द्रिय-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, तेषु संज्ञिविशेषणस्याऽसंभव द् इति. 'असन्नी हि ' इत्यादि. अयमर्थः-असंज्ञिषु असंज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग् दर्शितमेव वाच्यम् . पृथिव्यादिप रेषु हि ' सरदेशाच अप्रदेशाश्च' इत्येक एव, सदा बहूनाम् उत्पत्त्या तेषाम् अप्रदेशत्व-बहु वस्याऽपि संभवात्. नैरविकादीनां च व्यन्तरान्तानां संज्ञिनामपि असंज्ञित्वम्-असंज्ञिभ्यः उत्पादाद भूतभावतयाऽवसेयम् , तथा नैरपिकादिषु असंज्ञित्वस्य कादाचित् कत्वेन एकव-बहुत्वसंभव त् श्ड् भङ्गा भवन्ति, ते च दर्शिता एव-एतदेवाऽऽहः- नेरइय-देव-मणुए' इत्यादि. ज्योतिष्काः, वैमानिकाः, सिद्वास्तु न वाच्याः, तेषाम् असंज्ञित्वस्याऽसंभवात्. तथा 'नोसंज्ञि नोऽसंज्ञि'-विशेषणदण्डकयोद्वितीयदण्डके जीव-मनुज-सिद्धपदेषु, उक्तरूपं भङ्गकत्र भवति, तेषु बहूनाम् अवस्थितानां लाभात्, उत्पद्यमानानां च एकादीनां संभवाद्-इति. एतयोश्च दण्डकयो-जीव-मनुजे-सिद्धपदानि एव भवन्ति-नारका दिपदानां 'नोसंज्ञि-नोऽसंज्ञि' इति विशेषणस्याऽघटनाद-इति. सलेश्यदण्डकद्वये औधिकाण्डकवद जीव-- नारकादयो वाच्याः. सलेश्यतायां जीवत्ववद अनादित्वेन विशेषाऽनु-पादकत्वात् केवलं सिद्धपदं नाऽधीयते, सिद्धानाम् अलेश्यत्वादिति. कृष्णलेश्याः, नीललेश्या', कापोतलेयाश्च जीव--नारकादयः प्रत्येक दण्डकद्वयेनाऽऽहारकजीवादिबद् उपयुज्य वाच्वाः, केवलं यस्य जीव-नारकादेरेताः सन्ति स एव वाच्यः, एतदेवाऽऽहः- कण्हलेस्सा' इत्यादि. एताश्च ज्योतिष्क-वैमानिकानां न भवन्ति, सिद्धानां तु सर्वा न भवन्ति इति. तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः. पृथिव्य--वनस्पतिषु पुन. षड् भङ्गाः-यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्नाः, उत्पद्यमानाश्च लभ्यन्ते इति हेतोः सप्रदेशानाम् अप्रदेशानां च एकत्वबहुत्वसंभव इति-एतदेवाऽऽहः- तेउलेस्साए.' इत्यादि. इह नारक-तेजो-वायु-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावाद्-इति. पद्मलेश्या-शुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकाः, एतदेवाऽऽहः'पम्हलेस्सा' इत्यादि. इह च पञ्चेन्द्रियतिर्यग-मनुष्य-वैमानिकपदान्येव वाच्यानि, अन्येषु एतयोरभावाद-इति, अलेश्यदण्डकयोजीव- मनुष्य-सिद्धपदानि एवो व्यन्ते, अन्येषाम् अलेश्यत्वस्याऽसंभवात्-तत्र च जीव-सिद्धयोर्भङ्गकत्रयं तदेव. मनुष्येषु तु षड् भङ्गाः, अलेश्यता प्रतिपन्नानाम् , प्रतिपद्यमानानां च एकादीनां मनुष्याणां संभवेन सप्रदेशत्वे, अप्रदेशवे च एकत्व-बहुत्वसंभवाद इति-इदमेवाऽऽहः- अलेसहि' इत्यादि. सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथनसमयेऽप्रदेश त्वम् , द्वितीयादिषु तु सप्रदेशत्वम् ; . तत्र द्वितीयदण्ड के जीवादिपदेषु त्रयो भङ्गास्तथैव, विकलेन्द्रियेषु तु षट् , यतस्तेषु सासादनसम्परदृष्टय एकादयः पूर्वेत्पन्नाः, उत्पद्यमानाश्च लभ्यन्ते-अतः सप्रदेशत्वा-ऽप्रदेशत्वयोरेकत्व - बहुत्वसंभव इति. एतदेवाऽऽहः-'सम्मादडीहें' इत्यादि. इह एकेन्द्रियपदानि न वाच्यानि-तेषु सम्यग्दर्शनाऽभावादिति. ' मिच्छद्दिट्ठी हैं ' इत्यादि. मिथ्यादृष्टिद्वितीपदण्डके जीवादिपदेषु त्रयो भङ्गा:-मिथ्यात्वं प्रतिपन्नाः बहवः, सम्यक्त्वभ्रंशे तत् प्रतिपद्यमानाश्चैकादयः संभवन्ति इति कृत्वा. एकेन्द्रियपदेषु पुनः 'सप्रदेशाश्च अप्रदेशाश्व ' इत्येक एव-तेष्ववस्थितानाम् , उत्पद्यमानानां च बहूनामेव मावाद् इति. इह च सिद्धाः न वाच्याः तेषां मिथ्यात्वाऽभावादिति. सम्यगमिथ्यादृष्टिबहुत्वदण्डके ' सम्मामिच्छदिट्टी हिँ छन्भंगा' अयमर्थः-सम्यगमिथ्यादृष्टित्वं प्रतिपन्नकाः, प्रतिपद्यमानाश्च एकादयोऽपि लभ्यन्तेइत्यतस्तेषु षड् भङ्गा भवन्ति इति. इह च एकेन्द्रिय-विकलेन्द्रिय-सिद्धपदानि न वाच्यानि, असंभवाद् इति. 'संजएहिं ' इत्यादि. संयतेषु संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गाः -संयम प्रतिपन्नानां बहूनाम् , प्रतिपद्यमानानां च एकादीनां भावात् , इह च जीवपद-मनुश्यपदे एव वाच्ये, अन्यत्र संयतत्वाऽभावाद इति, असंयतद्वितीयदण्डके ' असंज एहिं ' इत्यादि. इह असंपतत्वं प्रतिपन्नानां
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org