Book Title: Abhidhana Sangraha Part 01 Author(s): Sivdatta Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेमचन्द्रः । बोधयित्वा महाराज देवलोकं जगाम यः । पश्चात्कुमारपालोऽयं शोकं गत्वा मुमूर्छ सः ॥ तदनु धैर्यमवलम्ब्य धर्मध्यानं करोति ।' इति हेमकुमारचरित्रकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश्च कुमारपालराज्यसमय एवाचायहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमित्यबाधमवगतम् । विशेषकथा तु प्रबन्धकोशप्रबन्धचिन्तामणिभ्यामवगन्तव्या । कुमारपालराज्यसमयस्तु--- ॐ नमः शिवाय । ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य बद्धाक्षरैरिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतेः खसमये ब्रह्माण्डपिण्डैर्नवैः क्रीडन्ती मणिकन्दुकैरिव सदा स्वच्छन्दमाह्लादते ॥ गीर्वाणैर्वीतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकाथै वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे । सद्यो वीरं चुलुक्याह्वयमसृजदिमं येन कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः॥ वंशः कोऽपि ततो बभूव विविधाश्चर्यैकलीलास्पदं यस्माद्भूमिभृतोऽपि वीतगणिता(णना): प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहतीं दधे विपन्नोऽपि सन्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मूल्यमुक्तामणिः क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्यायद्रुमोत्पादने यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां विद्वद्वान्धवविप्रवन्दिभृतकव्यूहोपभोग्यां व्यधात् । यत्खड्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रमक्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे ॥ सूनुस्तस्य बभूव भूपतिलकश्चामुण्डराजाह्वयो यद्गन्धद्विपदानगन्धपवनाघ्राणेन दूरादपि ।। विभ्रश्यन्मदगन्धभनकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्णाशितः॥ तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामणिर्जज्ञे साहसकर्मनिर्मितचमत्कारः क्षमामण्डले । यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुतिक्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्गमः ।। श्रीमद्दुर्लभराजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भङ्गुरा सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं(मं) बभार नृपतिः श्रीभीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुरत्कीर्तिप्रीणितविश्वकर्णविवरः श्रीकणदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्म पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ॥ दृप्यन्मालवभूपबन्धनविधित्रस्ताखिलक्ष्मापतिर्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थितिर्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजस्ततः ॥ १. मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्-वि० सं० १०५३-१०६६. ३. दुर्लभराजराज्यम्-वि० सं० १०६६-१०७८. ४. भीमदेवराज्यम्-वि० सं० १०७८-११२०. ५. कर्णदेवराज्यम्-वि० सं० ११२०-११५०.१. सिद्धराजापरपर्यायजयसिंहराज्यम्-वि० सं० ११५०-११९९. For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 180