Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हेमचन्द्रः । 40 अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके - Acharya Shri Kailassagarsuri Gyanmandir 'तत्पपूर्वादिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्री हेमसूरे कुमारपालदेवस्य चेदं न्यगदचरित्रम् ॥' इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः, 'स्तुमस्त्रिसंध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्याधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष कुप्तो वितथः प्रवादः । जिनेन्द्र प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः ॥ इति सोमप्रभकथिते कुमारनृप हेमचन्द्रसंवादे | जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इति सोमप्रभविरचितकुमारपालविबोधकाव्यतः 'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रवाहुरि द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिट्थीस्थूलभद्राह्वयः ॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिमत्समजनिष्ट विशिष्टलब्धिः || शिष्योऽन्यो दशपूर्वभृन्मुनिवृपो नाम्ना सुहस्तीत्यरुद् यत्पादाम्बुजसे वनात्समुदिते राज्ये प्रबोधधिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरनामाकरं भारतेऽस्मिन्नर्थे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ अजनि सुस्थित सुमतिबुद्ध इत्यभिधयार्यमुहस्ति महामुनेः । शमवनो दशपूर्वरान्तिषद्भवमहातरुभञ्जनकुञ्जरः ॥ महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमगिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः ॥ दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा पुर्या मञ्जु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तस्माद्वत्राभिधा शाखाभूत्कोटिकगणडुमे । उच्च नागरिकामुख्यशाखात्रितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥ १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु - 'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् | जिनधर्मप्रतिबोधः कृप्तोऽयं गुर्जरेन्द्रपुरे ||' इति वदता ग्रन्थकत्रैव १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः. २. 'इति च' इति भवेत. ३. सुस्थितः सुप्रतिबद्धः इति मुनिद्रयम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 180