Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 11
________________ ७. श्लो० ३९२ तः ९४ मृत्युज्ञानचिह्नानि ।। णाणं चागम-देवय-पइहा-सुमिणधरादऽदिट्ठीओ ।—योगश० गा० ९७. सक्षेपेणैतेषामुपर्युल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्रीहरिभद्राचार्यसंसूत्रितमेवाऽऽभाति । अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति, किञ्च यदि श्रीहरिभद्रसूरिपादप्रणीतयोगबिन्दु-योगदृष्टिसमुच्चयअष्टकप्रकरण-घोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरन्नित्यत्र न कश्चित् सन्देहलेश इति । प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण । अत्रैतत् किल ज्ञापनीयमस्ति यद्- इदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्र ४२३ पर्य यावच्च खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवर्ति एकं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति । अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्- श्रीमद्भिर्हरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्य येताद्देशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति । अन्ते तावदिदं निवेद्यते-येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलालमहानुभावेन स्वोपज्ञटीकायुता योगशतकप्रकरणप्रतिरतिचिरकालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्णं तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् । निवेदकःबृहद्गुरुप्रवर्तककान्तिविजयशिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः मुनिः पुण्यविजयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 144