Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 87
________________ ३६ ] Jain Education International ब्रह्मसिद्धान्तसमुच्चयः । खिकलोपेतक्षीणसार्द्धचतुष्कलः । सच्चार्थनिरतः श्रीमान् नृ-सुरासुरपूजितः ||२३|| अन्वर्थयोगतश्चायं महादेवोऽर्हस्तथा[ ? गतः ] । बुद्धथ गीयते सद्भिः प्रशस्तैर्नामभिः सदा ||२४|| अचिन्त्यदिव्यनिर्माणो महातिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ||२५|| महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जयगोचरः ||२६|| सर्वथाकृतकृत्यच सूक्ष्मोऽव्यक्तो निरब्जनः । सर्वकर्मफलाभावात् संसिद्धः सिद्ध उच्यते ॥ २७ ॥ परमाक्षररूपोऽयं स्वयंज्योतिरयं मतः । [३-वि.] अचन्द्रचन्द्रिकाकारो नादातीतः परः शिवः ॥२८॥ भवाऽभवनिमित्तं च जगतोऽनाशयं परम् । विद्वेषेज्याद्वियोगेन ततस्तद्भावसिद्धितः ॥२९॥ अनादिनिधनो ह्येष देहस्थोऽपि न गम्यते । मतिज्ञानादिभिः साक्षात् केवलेन तु दृश्यते ||३०|| चतुर्दशानां स्थानानामृर्ध्वं धामाऽस्य शाश्वतम् । स्थानानि भुवनान्येके, गुणस्थानानि चापरे ॥ ३१ ॥ एतानि पञ्च ब्रह्माणि परमा(? परा ) ण्याहुर्महर्षयः । एतत्प्रयोगतोऽवश्यं जायन्ते सर्वसिद्धयः ||३२|| यथाऽमृताप्तितः पुंसां महाकल्याणभागिनाम् । सिध्यन्ति सर्वकार्याणि चा[शील] प्रयोगतः ||३३|| ब्रह्माप्तेस्तद्वदेवेह ध्रुवं नानाप्रयोगतः । तीव्रभक्तिप्रभावेन सर्वसिद्धिं विदुर्बुधाः ||३४|| अद्वेषश्चैव जिज्ञासा शुश्रू[ ४ - प्र. ]षा श्रवणं तथा । बोध ईहा सुविज्ञप्तिः प्रतिपत्तिस्तथैव च ||३५|| [?] चैतेषामधिकारिविभेदतः । या सत्स्थानाभिनिवेशतः ||३६|| For Private & Personal Use Only ४९ 5 10 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144