Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 101
________________ २५० ] ब्रह्मसिद्धान्तसमुच्चयः । देवकर्मरतो नित्यं गुरुपूजापरायणः । सत्त्वार्थ सम्मवृत्तश्च भावेनैष सदैव हि ॥ २३६ ॥ द्रव्यतस्त्वन्यथापि स्याच्चित्रकर्मविपाकतः । बन्ध[१९ - प्र.]स्तत्रापि चाल्पोऽस्य शुभभावसमाश्रयात् ॥ २३७॥ यथाशक्ति नियोगतः । यच्च • तः श्रीमान् भावसारं यथाविधि || २३८ || * • Jain Education International ६३ पुष्णाति कुशलान् धर्मानित्याहारादिवस्तुनः । त्यागानुष्ठानभेदस्तु पोषधो जिनभाषितः ॥ २३९ ॥ द्रव्योपवासे नो यत्नो ह्यस्य शाखबहिष्कृते । eat भावोपवासे तु लोकद्वय हितावहे || २४० || उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न तु देहस्य शोषणम् ॥ २४९ ॥ अमोघगुरुयोगादिकरणेन करोति च । अमोघादिसमाधीनामुपादानं महामतिः || २४२ || अमोघोऽमोघपाशश्व अजितश्वापराजितः । वरदो वरप्रदोऽकालमृत्युमशमनस्तथा ।। २४३|| एते समाधयः श्रेष्ठा ज्ञेया अस्येष्टसिद्धये । [१९- वि. ] लब्धिहेतव एते यत् परिणामाः सतां मताः ॥ २४४ ॥ आद्यस्य हेतुर्विज्ञेयो गुरुकृत्येष्वमोघता । तत्पाशेप्यपरस्यापि सम्यग्धर्मकथादिषु || २४५|| तृतीयस्य पुनः क्रोधजयाभिग्रह एव तु । विषयाधिकवृत्तित्वं चतुर्थस्यात्र कीर्तितम् ॥ २४६ ॥ याच्ञासाफल्यकरणं पञ्चमस्येति तद्विदः || तदाधिक्यप्रदानं तु षष्ठस्य शुभभावतः || २४७|| रक्षा स्वजीवितेनापि प्राणिनां सप्तमस्य तु । एतैः समन्वितो ह्येष परार्थं कुरुते सदा ||२४८|| पञ्चमण्डलयागं तु यथाविधिसमाहितः । योगोत्तमं करोत्येष मन्त्र-मुद्रासमन्वितम् ॥ २४९ ॥ पूजा सर्वोपचाराऽत्र यथाशक्त्युपपादनात् । पुष्पादेस्तदभावे तु जपशुद्धा परा मता ॥ २५० ॥ For Private & Personal Use Only 5 10 15 20 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144