________________
२५० ]
ब्रह्मसिद्धान्तसमुच्चयः ।
देवकर्मरतो नित्यं गुरुपूजापरायणः । सत्त्वार्थ सम्मवृत्तश्च भावेनैष सदैव हि ॥ २३६ ॥ द्रव्यतस्त्वन्यथापि स्याच्चित्रकर्मविपाकतः ।
बन्ध[१९ - प्र.]स्तत्रापि चाल्पोऽस्य शुभभावसमाश्रयात् ॥ २३७॥ यथाशक्ति नियोगतः ।
यच्च • तः श्रीमान् भावसारं यथाविधि || २३८ ||
*
•
Jain Education International
६३
पुष्णाति कुशलान् धर्मानित्याहारादिवस्तुनः । त्यागानुष्ठानभेदस्तु पोषधो जिनभाषितः ॥ २३९ ॥ द्रव्योपवासे नो यत्नो ह्यस्य शाखबहिष्कृते । eat भावोपवासे तु लोकद्वय हितावहे || २४० || उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न तु देहस्य शोषणम् ॥ २४९ ॥ अमोघगुरुयोगादिकरणेन करोति च । अमोघादिसमाधीनामुपादानं महामतिः || २४२ || अमोघोऽमोघपाशश्व अजितश्वापराजितः । वरदो वरप्रदोऽकालमृत्युमशमनस्तथा ।। २४३|| एते समाधयः श्रेष्ठा ज्ञेया अस्येष्टसिद्धये । [१९- वि. ] लब्धिहेतव एते यत् परिणामाः सतां मताः ॥ २४४ ॥ आद्यस्य हेतुर्विज्ञेयो गुरुकृत्येष्वमोघता । तत्पाशेप्यपरस्यापि सम्यग्धर्मकथादिषु || २४५|| तृतीयस्य पुनः क्रोधजयाभिग्रह एव तु । विषयाधिकवृत्तित्वं चतुर्थस्यात्र कीर्तितम् ॥ २४६ ॥ याच्ञासाफल्यकरणं पञ्चमस्येति तद्विदः || तदाधिक्यप्रदानं तु षष्ठस्य शुभभावतः || २४७|| रक्षा स्वजीवितेनापि प्राणिनां सप्तमस्य तु । एतैः समन्वितो ह्येष परार्थं कुरुते सदा ||२४८|| पञ्चमण्डलयागं तु यथाविधिसमाहितः । योगोत्तमं करोत्येष मन्त्र-मुद्रासमन्वितम् ॥ २४९ ॥ पूजा सर्वोपचाराऽत्र यथाशक्त्युपपादनात् । पुष्पादेस्तदभावे तु जपशुद्धा परा मता ॥ २५० ॥
For Private & Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org