________________
ऊ
10
६२
15
20
25
Jain Education International
श्रीहरिभद्रसूरिविरचितः
तस्मिन्नवगते सम्यक् ततश्चारोप्यते पुनः । सुवास गुरुयोगाभ्यामस्मै सामायिकं हितम् ॥ २२२ ॥
[ २२२
सवित्तं स पुनर्धीमान् संविग्नेनान्तरात्मना । आत्मानं गुरवे सम्यग्र निवेदयति हृष्टधीः ॥ २२३ ॥ तदेतत् ताविकं प्रोक्तं महादानं सनातनम् । दवैतन्न पुनर्जन्तुर्याचको जायते क्वचित् ॥ २२४ ॥ सदा सर्वन्ददः श्रीमांचारित्र्यपि ददाति यत् । अनुत्तरं महापुण्यं भिक्षादिग्रहणादिना ॥ २२५|| गुरुस्तद्भावशुद्धयर्थं तथैव प्रति [ १८- प्र० ]पद्यते । असङ्गयोगयुक्तात्मा न परिग्रहवानतः ॥ २२६ ॥ धर्माज्ञया तु सततं तेनैव हि महात्मना । कालोचितं पुनः सर्वं सन्नीत्या कारयत्यलम् ॥२२७॥ समानधार्मिकादीनां ततः पूजा प्रवर्तते । वित्त-शक्त्यनुसारेण विचित्रौचित्ययोगतः ॥ २२८ ॥ कृपणेभ्योऽपि दातव्यमनुकम्पापुरःसरम् । तीर्थकृज्ज्ञाततः किञ्चिच्छासनोन्नतिकारणम् ||२२९|| ततश्च समयाख्यानं भवरूपादिचिन्तनात् । शुभं भावं समासाद्य सम्यग्योगाङ्गमुत्तमम् ||२३०|| त्रिसन्ध्यमेतत् कर्तव्यं बहुशो वेति धीमता । गुरुवन्दनयोगेन चित्तरत्नविशोधनम् ||२३१|| [१९ - द्वि०] देशदीक्षासमासेन कथितेयं जिनोदिता । पापक्षयकरी शस्ता तथा पुण्यवविवर्धनी ॥२३२॥ स एवं दीक्षितः पचादधिकारित्वयोगतः । सर्वत्र चेष्टते धन्यः सम्य निर्वाणसिद्धये ॥ २३३ ॥ बृहत्कण्या(?न्या)वरण्या(?न्या)यात् पुण्यमस्यानुषङ्गिकम् । अधिकारनियोगेन तथेष्टार्थप्रसाधकम् ||२३४|| देवकर्मक्रिया चास्य तृतीयैवोपजायते । किन्तु बाह्याङ्गसापेक्षा तद्भावश्वाप्ययत्नतः ॥ २३५॥
For Private & Personal Use Only
www.jainelibrary.org