________________
२२१ ]
ब्रह्मसिद्धान्तसमुच्चयः। एषेह योग्यता ज्ञेया धर्मराज्यप्रसिद्धये । चक्रवर्तिपदप्राप्तौ मानुषत्वाप्तिसन्निभा ॥२०॥ अवन्ध्यधीफलो ह्येष द्वितीयोपासनार्जितः । निधिग्रहणतुल्यस्तु समाधिस्तद्वतां मतः ॥२०९।। अधिमुक्त्यर्थकृत्संज्ञं निरवद्यगुणालयम् । नृपेन्द्रजन्माप्तिसममेनमन्ये विदुर्बुधाः ॥२१०॥ एतद्युक्तो महात्मेह सर्वथा शास्त्रचोदितम् ।। उत्तमं हितमाप्नोति सानुबन्धमसंशयम् ॥२११॥ तिर्यक्सत्त्वो यथा योग्यश्चक्रवर्तिपदस्य न । अनीदृशस्तथा ध[१७-प्र० मराज्यम्यापीति तद्विदः ॥२१२॥ 10 तस्मादेवंविधस्यैव दीक्षा कार्या विधानतः । देश-सर्वाभिधानेति यथाभव्यं नियोगतः ॥२३॥ देशदीक्षोत्तरा यस्मात् सर्वदीक्षा प्रवर्तते । आदौ संक्षेपतस्तम्मादसावेवाभिधीयते ॥२१४॥ गुरुणेयं विधातव्या ज्ञेयो गुणगुरुश्च सः॥ ज्ञानादिमान् प्रसिद्धश्च वत्सलः कुलजो महान् ॥२१५॥ गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात् सदैव स गुरुभवकान्तारनायकः ॥२१६॥ व्रतारोपणमत्रादौ तदर्थज्ञापने सति । आदित्सोः सूत्रनीत्यैव वणिक्पुत्रोपमानतः ॥२१७॥ 20 स्थिरव्रतस्य तदनु देशसामायिकं महत् । दीयतेऽस्मै विधानेन प्रधानं धर्मसाधनम् ।।२१८॥ शोभनेऽहनि शुद्धस्य निमित्त-व्रतयो १७-द्वि० गतः । अभिवासनमस्योक्तं सूरिमन्त्रेण यौगिकम् ॥२१९॥ स्वान्तिकेऽस्य मतः स्वापस्तन्मन्त्रार्पणमेव च । स्वतोऽपि तज्जपः सम्यक् चेप्टारूपणमेव च ॥२२०॥ उत्तमं चात्र समवसरणं मण्डलं मतम् । तत्र पुष्पादिपातेन ज्ञेयं स्थानादि चास्य तु ॥२२१॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org