________________
श्रीहरिभद्रसूरिविरचितः
[१९४नित्यनैमित्तिके कुर्वन् प्रतिषिद्धानि वर्जयन् ।। [१५-द्वि०] सञ्चितं चोपभोगेन क्षपयन्नुच्यते नरः ॥१९४।। शुभाशयादियोगेन चितं सञ्चितमुच्यते । उपभोगात् क्षयश्चास्य किन्तु धर्मानुबन्धदः ॥१९५॥ विरेकास्थासमं ह्येतत् प्रतिबन्धकमप्यलम् । विशिष्टगुणसम्प्राप्तेर्हन्त तत्फलमेव हि ॥१९६॥ तीसंवेगभावेन महाशयकर ह्यदः । महाबलभवे यदृच्छ्यते तु जगद्गुरोः ॥१९७।। ऊर्ध्वदेहक्रियाज्ञानयोग्यताऽप्यस्य ताचिकी। लोकव्यवस्थामाश्रित्य लोकोत्तरपदावहा ॥१९८।। भृत्यानामुपरोधेन यः करोत्यूर्ध्वदेहिकम् । तद् भवत्यसुखोदकं जीवतश्च मृतस्य च ॥१९९।। भृत्यानामुपरोधश्च ज्ञेयो लोकद्वयानुगः । गुरुलाघवभावेन धर्मपीडानिवन्धनम् ॥२०॥ तस्माद् भव्यानुमत्येव . . . . . . . . । . . . . [१६-प्र०]त्ययोगेन कार्यमेतन्महात्मना ।।२०१॥ पुण्यान्तरायतोऽप्यपामुपरोधो भवत्यलम् । दीनादिभावतश्चैव तदेतदु . . . . (पपादये)त् ॥२०२॥ . एवं दुःखादिविज्ञानयोग्यताऽप्यस्य विद्यते । सर्वथा सर्वपापौघनिवृत्तेः परमास्पदम् ॥२०३॥ दुःखाङ्गपरिहारजस्तदपोहाय वर्तते। सम्यग् न पुनरज्ञोऽपि कण्टकज्ञानतस्तथा ॥२०४॥ विपर्यस्तश्च वालश्च जडश्चैव यथाक्रमम् । प्रतिपत्त्यङ्गमत्रेति कालशूकरिकादयः ॥२०५॥ बाह्यसङ्गरतिः कामी धर्मव्यामूढ एव च । दार्टान्तिकार्थपक्षेऽपि योजनीया विचक्षणैः ॥२०६॥ बाह्यस्वभाव [१६--द्वि.] एकस्य तदन्यभवनोत्सुकः । सोऽप्येवमिति नाशाय काष्ठकीटे तथेक्षणात ॥२०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org