________________
१९३ ]
10
ब्रह्मसिद्धान्तसमुच्चयः । निषिद्धकर्माभावेन न दूषयति चाशयम् । एवं सञ्जायते चाद्यो द्वितीयस्तु विपर्ययात् ॥१८०॥ एवमभ्यासतः सम्यक् क्षयोपशमयोग्यताम् । कालेनाप्नोति नियमाचारित्राप्तिनिवन्धनम् ॥१८१॥ चारित्रलब्धिरेषा सा संयमश्रेणिरुत्तमा । भवद्रुमानल[१४-द्वि०]ज्वाला क्लेशानां प्रलयक्रिया ॥१८२॥ परा निवृत्तिः प्रकृतेर्दिक्षाभवनक्रिया। संयोगशक्तिव्यावृत्तिकैवल्याप्तेश्च सस्थितिः ॥१८३॥ बोधमण्डकरी चैव रागादिनिधनक्रिया। भवान्तप्राप्तियात्रा च स्कन्धाभावक्रियेति च ॥१८४॥ प्रशान्तवाहिता चैव गीयते मुख्ययोगिभिः । भवाब्धिवेलाव्यावृत्तितिकर्मजरेति च ॥१८५॥ अस्यामयमवस्थायां निर्वाणार्थं तु चेष्टते । भावेनैकान्ततो धीमान् द्रव्यतस्तु विकल्पतः ॥१८६॥ प्रकृत्येच्छा दियोगानां यत् कार्यमनुवर्तते । क्षयोपशमसामर्थ्यादिति तत्त्वविदो विदुः ॥१८७॥ [१५-प्र०]नमस्कारादिको योगः सर्वोऽपि विविधो मतः । सदिच्छा-शास्त्र सामर्थ्ययोगभेदेन तत्त्वतः ॥१८८॥ प्रमाद . . . . . . . . . पि यः क्वचित् । नमस्कारादिरच्छवास इच्छायोगोऽभिधीयते ॥१८९॥ शास्त्रयोगः पुनर्जेयो यथाशास्त्रं स एव हि । कायादिसंयमोपेतः अव्याक्षिप्तस्य भावतः ॥१९॥ शास्त्रोक्तं विधिमुल्लङ्घय विशेषेण शुभाशयात् । सामर्थ्ययोगोऽसावेव तीत्रावाच्यगुणोदयः ॥१९१॥ यथाभव्यं प्रतिज्ञादि प्रोक्तमस्य विमुक्तये । अन्यथा प्रत्यपायाय जडानामुपजायते ॥१९२॥ नित्यकर्मादिविज्ञानयोग्यताऽप्यस्य विद्यते । तत एव न तद्बाधा प्रवृत्तस्योपपद्यते ॥१९३॥
15
20
Jain Education International
www.jainelibrary.org