________________
५८
श्राहारभद्रसारावराचतः सामान्येनैवमाख्याता तृतीया त्वचरित्रिणः । न भवत्येव नियमादित्याहुस्तत्त्वेदिनः ॥१६६॥ नाविशुद्धं मनो न्यस्य तथौदार्यात् प्रवर्तते । मुक्त्यासन्नेषु भावेषु व्यक्तं चारित्रमोहतः ॥१६७।। भृङ्गवन्मालतीगन्धसमाकृष्टः प्रयात्यलम् । चारित्रिणस्तु सद्धर्मादुत्तरोत्तरवस्तुषु ॥१६॥ समारोपस्त्वसत्कामाक्षोभादिभ्योऽवगम्यते । मुद्रा-रक्षादियोगस्य तत्र वन्ध्यत्वदर्शनात् ॥१६९॥ चारित्रिणस्तु सद्भावे तथैवाऽऽपतिते सति। क्षुद्रवि १३-विनायकैः पायोऽवग्रहोऽपि न भिद्यते ॥१७०॥ भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभालम्बनयोगतः ॥१७१॥ चिन्तारत्नानुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् ॥१७२।। द्वयाभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् ॥१७३॥ दानं सुदात(?न)मनयोर्महादानं च कीर्तितम् । दातुर्हितं सुदात(न) स्यान्महादानं द्वयोरपि ॥१७४॥ न्यायाजितं ददात्येक औद्धत्यरहितस्तथा । पात्रादिगतवित्तश्च पश्चात्तापादिवर्जितः ॥१७५॥ तदन्योऽप्येवमेवेति शास्त्रार्थगतमानसः । • • • • • • • • स्वनुकम्पादिमान् दृढम् ॥१७६॥ त्यागात्तु पुण्यजनकमाधमन्ये विदु[ १४-प्र०]र्बुधाः । सहतेन द्वितीयं तु परिभोगोत्थकारणम् ॥१७७॥ लाभोऽपि चानयोायानेवमेवोपपद्यते । परोपतापरहितः शुभानुष्ठानसङ्गतः ॥१७८॥ पञनार्थेन संयोगः शङ्खन तु न जानुचित् । लोकद्वयहितो ह्याधस्तदन्यस्त्वहितो मतः ॥१७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org