Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
10
15
५२
20
25
Jain Education International
श्रीहरिभद्रसूरिविरचितः
तमो मोहो महामोहस्तामिस्त्रोऽन्धः स एव च । विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे ॥ ६६ ॥ श्रेयः प्रवृत्तिकामस्य तदन्यत्र प्रवर्तनम् । सिद्धान्तानादराद्धचेतत् तम आहुर्मनीषिणः ॥ ६७ ॥ देहादिष्वात्मबुद्धिर्या मुक्तिमान परोधिनी । तत्राभिष्वङ्गभावेन सा मोह इति कीर्त्यते ॥ ६८ ॥ बाह्येषु तु ममत्वं यद देहभावेऽप्यभाविषु । केवलं भावसंसिद्धचै महामो[ ६-वि.] हस्तदाहितम् ||६९|| भाव्याभाव्येषु सर्वेषु नियमेन तथातथा ।
भवन् स्वात्मापकाराय क्रोधस्तामिस्र उच्यते ॥७०॥ संसारे मरणं जन्तोर्नियमेन व्यवस्थितम् । तत् प्रतीत्य भयं ह्यन्धतामिस्त्रः परिकीर्तितः ॥ ७१ ॥ एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः। कुकृत्येष्वपि मृदानां बहुमानः प्रवर्तते ॥ ७२ ॥ निष्कलाख्याश्रुतेस्त (? स्त्व)स्य शुभविम्बोपलब्धितः । तथाभव्यत्वतश्चैव क्वचिदेष निवर्तते ॥ ७३ ॥ | निवर्तमान एतस्मिन् महासत्वश्च जायते । पक्षपातो गुणेष्वेव भवादुद्वेग एव च ॥ ७४ ॥ उद्विग्नः स भवाद् धीमान् विपर्ययवियोगतः । मार्गानुसारिविज्ञानात् तत्त्वमित्थं प्रपद्यते ॥७५॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् ।
॥७६॥
[७-प्र.]मानुष्यरत्नमुत्कृष्टं भवाब्धावतिदुर्लभम् । लब्ध्वैतच्छ्रवणं युक्तं न कर्तुमसमञ्जसम् ॥७७॥
सिद्धान्तालोचनान्नित्यं श्रेयस्येव प्रवर्तते ॥ ७८ ॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् ।
॥७९॥
For Private & Personal Use Only
[ ६६
www.jainelibrary.org
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144