Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 71
________________ ७४] स्वोपज्ञटीकालंकृतं योगशतकम् । इत्यपि वचनमात्रमेव । ग्रन्थत एव हेतुद्वयासिद्धत्वपरिहारमाह-‘तथास्वभावत्वाभावादिति' उभयत्रातिप्रसङ्गो व्यवस्थितः, तथास्वभावत्वाभावात् । तथाहि--- यदा अभावो भावो भवति तदा तथास्वभावत्वस्य - विवक्षितभावभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयेति प्रकटम् यदाऽपि भाव एवाभावो भवति तदाऽपि तथास्वभावत्वस्य–स्वाभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयैवेति भावनीयम् । ऽ इति गाथार्थः ॥७२॥ एवं विपक्षे बाधकप्रमाणमभिधाय स्वपक्षसिद्ध्यर्थमाह एयस्स उभावाओ णिवित्ति- अणुवित्तिजोगओ होंति । उप्पायादी वं अविगारी बऽणुहवविरोहा ॥ ७३ ॥ " ‘एतस्य पुन:' तथास्वभावत्वस्य 'भावात् कारणाद् निवृत्त्यनुवृत्तियो [ २७- 10 प्र०]गतो हेतोर्भवन्ति । के ? इह 'उत्पादादयः' उत्पाद-व्यय-धौव्याणि, प्रकारान्तरेणोक्तवदुत्पादाद्ययोगात् । नैवं प्रक्रमात् पुरुषः अविकार्यपि, अपिशब्दाद् विकार्यपि, अनुभवविरोधात्, एकान्तैकस्वभावेऽनुभवभेदायोगादिति हृदयम् । एतदुक्तं भवति - यदैव विवक्षितभावभवनस्वा(! स्व) भावोऽभावः तदैव स्वभावभावाद्द जहाति सर्वथा भावत्वम्, यदाऽपि च स्वनिवृत्तिस्वभावस्तदाऽप्येवंविधस्वभावभावात् स्वनिवृत्तिमिति 15 सूक्ष्मधियाऽऽलोचनीयम् । एवं चानुवृत्ति-व्यावृत्तिस्वभावं वस्तूत्पादाद्यात्मकमिति सिद्धम् । उक्तं च "घट-मौलि सुवर्णार्थी नाशोत्पाद- स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोवतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्मात् तत्त्वं त्रयात्मकम् ॥” इति गाथार्थः ॥७३॥ [ शास्त्रवार्त्ता ० स्त० ७ श्लो० २-३ ] आज्ञयेति द्वारं व्याचिख्यासुराह -- आणाए चितणम्मी तत्तागमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ॥७४॥ Jain Education International ३३ 'आज्ञया' परमगुरुवचनरूपया हेतुभूतया चिन्तने अधिकृतस्य वस्तुनः 'तत्त्वावगमः' तत्त्वपरिच्छेदः 'नियोगतो भवति' अवश्यं भवतीति, रागादिवि [२७ – द्वि०] षं For Private & Personal Use Only 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144