Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 74
________________ ३६ श्रीहरिभद्रसूरिविरचितं [गा०६२साधार[२९-७०]णः पुनर्विधिः सर्वावस्थानुगत इत्यर्थः, शुक्लाहारोऽस्य विज्ञेयः । शुद्धानुष्ठानसाध्यः शुद्धानुष्ठानहेतुः स्वरूपशुद्धश्च शुक्ल इति । 'अस्य' योगिनः एवम्भूतो विज्ञेयः, तदन्यस्य योगाङ्गत्वानुपपत्तेः, न ह्यपथ्यान्नभुजो देहाचारोग्यसिद्धिः । अन्वर्थत चैष पुनः शुक्लाहारः सर्वसम्पत्करी भिक्षेति विज्ञेयः । सर्वसम्पत्करणशीला 5 सर्वसम्पत्करी दातृ-ग्रहीत्रुभयलोकहिता, पौरुषना-वृत्तिभिक्षाव्यवच्छेदार्थमेतत् । अत्र बहु वक्तव्यं तत् तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्य । इति गाथार्थः ॥८१॥ अत्रैव विशेषमाहवणलेबोवम्मेणं उचियत्तं तग्गय निओएणं । एत्थं अवेक्खियव्वं, इहराऽयोगो ति दोसफलो ॥८२॥ 10 'व्रणलेपौपम्येन' सकललोकसिद्धेन उचितत्वं 'तद्गतम्' आहारगतं 'नियोगेन' अवश्यन्तया 'अत्र' प्रक्रमे अपेक्षितव्यग् , 'इतरथा' अन्यथा 'अयोगः' असम्बन्ध इति कृत्वा व्रणलेपवदेवाऽऽहारो दोषफल इति । एतदुक्तं भवति—यथा व्रणः स्वरूपभेदात् कश्चिन्निम्बतिलोचितः कश्चिच्चिक्कशोचितः कश्चिद् गवादिघृतोचित इति, तत्र विपर्ययलेपदाने दोषः; एवं कश्चिद् यतिकायः[ २९-द्वि० ] कोद्रवाद्यो15 दनोचितः कश्चित् शाल्योदनाधुचितः कश्चिद् हविःपूर्णाधुचित इति, अत्रापि विपर्ययदाने दोषः, गम्भीरबुद्ध्या परिभावनीयमेतत् । इति गाथार्थः ॥८२॥ कथमुचितस्य लाभः ? इत्याशङ्कानिरासार्थमाहजोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो । लद्धीण वि संपत्ती इमस्स जं वणिया समए ।।८३॥ 20 योगानुभावत एव' योगसामर्थ्यत एव तत्प्रतिबन्धककर्मनिवृत्तेः 'प्रायः' बाहुल्येन । न च 'शोभनस्यापि' आहारस्य हविःपूर्णादेः अलाभः, किन्तु लाभ एव । कुतः ? इत्याह-'लब्धीनामपि' रत्नादिरूपाणां योगानुभावत एव योगसामर्थ्यात् 'सम्प्राप्तिः' शोभना प्राप्तिः परोपकारफला 'अस्य' योगिनः 'यत्' यस्मात् कार णाद् वर्णिता 'समये' सिद्धान्ते । इति गाथार्थः ॥८३॥ 25 लब्धीनां स्वरूपमाह रयणाई लद्वीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहातहायोगबुड्ढीए ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144