________________
३६
श्रीहरिभद्रसूरिविरचितं
[गा०६२साधार[२९-७०]णः पुनर्विधिः सर्वावस्थानुगत इत्यर्थः, शुक्लाहारोऽस्य विज्ञेयः । शुद्धानुष्ठानसाध्यः शुद्धानुष्ठानहेतुः स्वरूपशुद्धश्च शुक्ल इति । 'अस्य' योगिनः एवम्भूतो विज्ञेयः, तदन्यस्य योगाङ्गत्वानुपपत्तेः, न ह्यपथ्यान्नभुजो देहाचारोग्यसिद्धिः ।
अन्वर्थत चैष पुनः शुक्लाहारः सर्वसम्पत्करी भिक्षेति विज्ञेयः । सर्वसम्पत्करणशीला 5 सर्वसम्पत्करी दातृ-ग्रहीत्रुभयलोकहिता, पौरुषना-वृत्तिभिक्षाव्यवच्छेदार्थमेतत् । अत्र बहु वक्तव्यं तत् तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्य । इति गाथार्थः ॥८१॥
अत्रैव विशेषमाहवणलेबोवम्मेणं उचियत्तं तग्गय निओएणं ।
एत्थं अवेक्खियव्वं, इहराऽयोगो ति दोसफलो ॥८२॥ 10 'व्रणलेपौपम्येन' सकललोकसिद्धेन उचितत्वं 'तद्गतम्' आहारगतं 'नियोगेन'
अवश्यन्तया 'अत्र' प्रक्रमे अपेक्षितव्यग् , 'इतरथा' अन्यथा 'अयोगः' असम्बन्ध इति कृत्वा व्रणलेपवदेवाऽऽहारो दोषफल इति । एतदुक्तं भवति—यथा व्रणः स्वरूपभेदात् कश्चिन्निम्बतिलोचितः कश्चिच्चिक्कशोचितः कश्चिद् गवादिघृतोचित
इति, तत्र विपर्ययलेपदाने दोषः; एवं कश्चिद् यतिकायः[ २९-द्वि० ] कोद्रवाद्यो15 दनोचितः कश्चित् शाल्योदनाधुचितः कश्चिद् हविःपूर्णाधुचित इति, अत्रापि विपर्ययदाने दोषः, गम्भीरबुद्ध्या परिभावनीयमेतत् । इति गाथार्थः ॥८२॥
कथमुचितस्य लाभः ? इत्याशङ्कानिरासार्थमाहजोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो ।
लद्धीण वि संपत्ती इमस्स जं वणिया समए ।।८३॥ 20 योगानुभावत एव' योगसामर्थ्यत एव तत्प्रतिबन्धककर्मनिवृत्तेः 'प्रायः'
बाहुल्येन । न च 'शोभनस्यापि' आहारस्य हविःपूर्णादेः अलाभः, किन्तु लाभ एव । कुतः ? इत्याह-'लब्धीनामपि' रत्नादिरूपाणां योगानुभावत एव योगसामर्थ्यात् 'सम्प्राप्तिः' शोभना प्राप्तिः परोपकारफला 'अस्य' योगिनः 'यत्' यस्मात् कार
णाद् वर्णिता 'समये' सिद्धान्ते । इति गाथार्थः ॥८३॥ 25 लब्धीनां स्वरूपमाह
रयणाई लद्वीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहातहायोगबुड्ढीए ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org