________________
८१] स्वोपशटीकालंकृतं योगशतकम् ।
इहैव विध्यन्तरमाहअहवा आहेणं चिय भणियविहाणाओ चेव भावेज्जा। सत्ताइएमु मेत्ताइए गुणे परमसंविग्गो ॥७८॥
'अथवा' इति प्रकारान्तरप्रदर्शनार्थः । 'ओघेनैव' सामान्येनैव भाणतावधाननैव स्थाना दिना 'भावयेत् ' प्रणिधानसारमभ्यस्येत् । क्व कान् ? इत्याह--'सत्त्वा- 5 दिषु' सत्त्व-गुणाधिक क्लिश्यमानाऽविनेयेषु 'मैत्र्यादीन् गुणान्' मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यलक्षणान् ‘परमसंविग्नः' लब्धि-पूजा-ख्यात्याद्याशयरहितः । इति गाथार्थः ।।७८।।
एतदेव विशेषेणाभिधातुमाहसत्तेसु ताव मेत्तिं, तहा पमोयं गुणाहिएK ति । करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएमु ॥ २८-द्रि० ७९ ॥ 10
सत्त्वेषु सर्वेष्वेव तावदादौ 'मैत्री' प्रत्युपकारानपेक्षसम्बन्धां सुखरूपां भावयेत् । तथा 'प्रमोद' बहुमानाशयलक्षणं ‘गुणाधिकेषु' इति स्वगुणाधिकेषु सत्वेषु । तथा 'करुणा-मध्यस्थत्वे' कृपोपेक्षारूपे यथासंख्यमेतत् 'क्लिश्यमानाऽविनेययोः; क्लिश्यमानेषु करुणा, अविनेयेषु माध्यस्थ्यम् । इति गाथार्थः ॥ ७९ ॥
क्रमान्तराशङ्कापोहायाहएसो चेवेत्थ कमो उचियपवित्तीए वणिो साहू। इहराऽसमंजसत्तं तहातहाऽठाणविणिओया ।।८०॥
'एष एव' अनन्तरोदितः 'अत्र' भावनाविधौ ‘क्रमः' प्रवृत्तिप्रस्ताररूपः उचितप्रवृत्तेः कारणाद् वर्णितः ‘साधुः' शोभनः तीर्थकर-गणधरैः । तथाहि-- सामान्येन सत्वेषु मैत्री एवोचिता, प्रमोदो गुणाधिकेष्वेव, क्लिश्यमानेष्वेव करुणा, 20 अविनेयेष्वेव माध्यस्थ्यम् । इत्थं चैतदङ्गीकर्तव्यम् इत्याह-'इतरथा' अन्यथोक्तक्रमबाधायाम् 'असमञ्जसत्व' सन्यायविरुद्धं भवति । अत्र हेतुः तथातथाऽस्थानविनियोगादिति, सत्त्वादिषु प्रमोदादिकरणे अस्थानविनियोगो मिथ्याभावनात्मकः प्रत्यवायायेति भावनीयम् । गुणाधिकज्ञानं च क्षयोपशमविशेषाद् रत्नादाविव मार्गानुसारिणाम् । इति गाथार्थः ॥ ८० ॥
अत्रैव सामाग्यविधिमाह-- साहारणो पुण विही सुक्काहारो इमस्स विष्णेओ। अण्णत्थओ य एसो उ सनसंपकरी भिक्खा ॥८१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org