________________
३४
श्रीहरिभद्रसूरिविरचितं
[गा० ७५
प्रति परममन्त्रकल्पत्वादाज्ञायाः । अत एवाहुरपरे – “अमन्त्रापमार्जनकल्पा फलं प्रत्यनागमा क्रिया " [ ] इति । तथा 'भावगुणाकरबहुमानाच्च' तीर्थकरबहुमानाच्चाऽऽज्ञासारया प्रवृत्त्या कर्मक्षयः परमः, स्थानबहुमानेन तुल्यक्रियायामेवाऽऽज्ञाराधन-विराधनाभ्यां कर्मक्षयादिविशेषात् । इति गाथार्थः ||७४ ||
5 विविक्तदेशगुणानाह---
"पइरिके" विविक्ते - एकान्ते व्याघातो न भवति अधिकृतयोगस्य 'प्रायेण' बाहुल्येन, विज्ञेषनिमित्ताभावात् । 'योगवशिता च ' योगाभ्याससामर्थ्य लक्षणा 10 जायते तथाप्रशस्ता, विधिप्रवृत्तेरसद् ग्रहाभावात् । 'हन्दि' इत्युपप्रदर्शने । ‘अनभ्यस्तयोगानाम् ' आदियोगानाम् । इति गाथार्थः ॥ ७५
चरममुपयोगद्वारं व्याचिख्यासुराह
उवओगो पुण एत्थं त्रिष्णेओ जो समीवजोगो ति । विहियकिरियागओ खलु अतिभावो उसव्वत्थ ||७६ ||
परिके बाबाओ न होइ पारण योगवसिया य । जायर तहापसत्था हंदि अणन्भत्थजोगाणं ||७५||
15 उपयोगः पुनः 'अत्र' प्रक्रमे विज्ञेयो यः 'समीपयोगः' सिद्धेः प्रत्यासन्न इति । स चायमित्याह — 'विहितक्रियागतः खलु' स्थानादिक्रिया [ २८ - प्र० ]विषय इत्यर्थः । 'अवितथभावस्तु' यथोक्तभाच एव 'सर्वत्र' स्थानादौ । एतलिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च भावनीयमेतत् । इति गाथार्थः ।। ७६ ।।
उपसंहरन्नाह—
एवं अन्भासाओ तत्तं परिणम चित्तथेज्जं च ।
जाय भवाणुगामी सिसुहसंसाहगं परमं ॥७७॥
"
30'
‘एवम्' उक्तेन न्यायेन अभ्यासाद् हेतोः तत्त्वं परिणमति रागादिविषयसम्बन्धि । तथा 'चित्तस्थैर्थं च ' आनन्दसमाधिबीजं जायते । किंविशिष्टम् ? इत्याह—'भवानुगामि' जन्मान्तरानुगमनशीलं 'शिवसुखसंसाधक' पारम्पर्येण मोक्षॐ सुखसाधकमित्यर्थः । ‘परमं' प्रधानं चित्तस्यैयै शिवाध्वविजयदुर्गावाप्तिलक्षणम् । इति गाथार्थः ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org