________________
७४]
स्वोपज्ञटीकालंकृतं योगशतकम् ।
इत्यपि वचनमात्रमेव । ग्रन्थत एव हेतुद्वयासिद्धत्वपरिहारमाह-‘तथास्वभावत्वाभावादिति' उभयत्रातिप्रसङ्गो व्यवस्थितः, तथास्वभावत्वाभावात् । तथाहि--- यदा अभावो भावो भवति तदा तथास्वभावत्वस्य - विवक्षितभावभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयेति प्रकटम् यदाऽपि भाव एवाभावो भवति तदाऽपि तथास्वभावत्वस्य–स्वाभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयैवेति भावनीयम् । ऽ इति गाथार्थः ॥७२॥
एवं विपक्षे बाधकप्रमाणमभिधाय स्वपक्षसिद्ध्यर्थमाह
एयस्स उभावाओ णिवित्ति- अणुवित्तिजोगओ होंति । उप्पायादी वं अविगारी बऽणुहवविरोहा ॥ ७३ ॥
"
‘एतस्य पुन:' तथास्वभावत्वस्य 'भावात् कारणाद् निवृत्त्यनुवृत्तियो [ २७- 10 प्र०]गतो हेतोर्भवन्ति । के ? इह 'उत्पादादयः' उत्पाद-व्यय-धौव्याणि, प्रकारान्तरेणोक्तवदुत्पादाद्ययोगात् । नैवं प्रक्रमात् पुरुषः अविकार्यपि, अपिशब्दाद् विकार्यपि, अनुभवविरोधात्, एकान्तैकस्वभावेऽनुभवभेदायोगादिति हृदयम् । एतदुक्तं भवति - यदैव विवक्षितभावभवनस्वा(! स्व) भावोऽभावः तदैव स्वभावभावाद्द जहाति सर्वथा भावत्वम्, यदाऽपि च स्वनिवृत्तिस्वभावस्तदाऽप्येवंविधस्वभावभावात् स्वनिवृत्तिमिति 15 सूक्ष्मधियाऽऽलोचनीयम् । एवं चानुवृत्ति-व्यावृत्तिस्वभावं वस्तूत्पादाद्यात्मकमिति सिद्धम् । उक्तं च
"घट-मौलि सुवर्णार्थी नाशोत्पाद- स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोवतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्मात् तत्त्वं त्रयात्मकम् ॥”
इति गाथार्थः ॥७३॥
[ शास्त्रवार्त्ता ० स्त० ७ श्लो० २-३ ]
आज्ञयेति द्वारं व्याचिख्यासुराह -- आणाए चितणम्मी तत्तागमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ॥७४॥
Jain Education International
३३
'आज्ञया' परमगुरुवचनरूपया हेतुभूतया चिन्तने अधिकृतस्य वस्तुनः 'तत्त्वावगमः' तत्त्वपरिच्छेदः 'नियोगतो भवति' अवश्यं भवतीति, रागादिवि [२७ – द्वि०] षं
For Private & Personal Use Only
20
25
www.jainelibrary.org