________________
श्रीहरिभद्रसूरिविरचितं
[गा० ७१पुद्गलानामेव चिन्तयेदिष्टेतरादिभावेन । एवं विपाकदोषं च' परलोके द्वेषस्यैव सर्वस्यामनोरमत्वादिरूपम् । इति गाथार्थः ।।७०।।
इदानीं मोहमधिकृत्य प्रतिपक्षमभिधातुमाह
चिंतेज्जा मोहम्मी आहेणं ताव वत्थुणो तत्तं ।।
उप्पाय-वय-धुवजुयं [ २६--प्र० ] अणुहबजुत्तीए सम्मं ति ॥७१॥ चिन्तयेद मोहे सति 'ओघेन' सामान्येन तावदादौ 'वस्तुनः' जीवादेः 'तत्त्वं' तद्भावम् । किम्भूतम् ? इत्याह- उत्पाद-व्यय-ध्रौव्ययुक्तं निमित्तभेदेन 'अनुभवयुक्त्या सम्यक्' अनुभवप्रधाना युक्तिस्तया ‘सम्यग्' व्यवहारनिबन्धनत्वेन चिन्तयेत् । इति गाथार्थः ॥७१॥ 10 अनुभवयुक्तिमेव लेशत आह
नाभावो च्चिय भावो अतिप्पसंगेण जुज्जइ कयाइ ।
ण य भावोऽभावो खलु तहासहावत्तऽभावाओ ॥७२॥ नाभाव एव सर्वथा भावो युज्यते 'कदाचित्' इति कालावधारणम् । अतिप्रसङ्गेन हेतुना । यदि ह्यसदेव सद् भवेत् ततोऽसत्त्वाविशेषात् सकलशक्त्यभावाद् 1: विवक्षितसत्त्ववद् अविवक्षितमपि भवेद् हेत्वविशेषादिति युगपद् [विवक्षिता-5]विवक्षितघट
पटादिभावापत्तिः,अनुपयोगिनी चेह तदन्यहेतुपरिकल्पना, असज्जननस्वभावत्वेन तस्या अप्युक्तदोषानतिवृत्तेः, अवध्यभावे तद्विशेषकल्पनायोगादिति । एवं च ---
असदुत्पद्यते तद्धि विद्यते यस्य कारणम् ।
शशशृङ्गाद्यनुत्पत्तिहत्वभावादिष्यते ॥ 20 इति वचनमात्रमेव । तथा न च भाव एकान्तेन अभाव एव युज्यते कदा- चित्, अतिप्रसङ्गेन हेतुनेति वतते । यदि हि सदेवासद् भवेत् ततः सत्वाविशेषा
(२६-द्वि० ]त् सकलशक्त्यभावाद् विवक्षितासत्त्ववद् अविवक्षितमपि भवेत् , हेत्वविशेषादिति समं घट-मृदाद्यभावापत्तिः, अनुपयोगिनी चेह तदन्यमृदादिपरिकल्पना,
सतोऽसद्भवनस्वभावतया हेतुत्वेन तस्या अप्युक्तदोषानतिवृत्तः, अवध्यभावे स्वभावान्त25 रकल्पनायोगादिति, एवं च
सतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः । न तत्र किञ्चिद् भवति न भवत्येव केवलम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org