________________
स्वोपज्ञटीकालंकृतं योगशतकम् ।
स्त्रीरागे सति तत्त्वं 'तासां' स्त्रीणां चिन्तयेत् सम्यग्बुद्ध्या परमगुरुवचनगर्भया, अन्यथा तत्त्वचिन्तनायोगात् । किंविशिष्टं तत्त्वम् : इत्याह — 'कलमलक-मांसशोणित-पुरीष-कङ्कालप्रायमिति' कलमल - धात्वन्तरे जम्बालम्, मांस- शोणितादयस्तु प्रसिद्धाः, एतद्रूपमेव तत्त्वम् । इति गाथार्थः ॥६७॥
तथा—
७०]
रोग - जरा परिणामं णरगादिविवागसंगयं अहवा । चलरागपरिणतिं जीयनासणविवागदो ति ॥६८॥
रोग-जरापरिणामं तत्त्वं तासामिति वर्तते । तथा नरकादिविपाकसङ्गतमेतदेव तद्भोपेक्षया । अथवा चलरागपरिणत्येतदेव । तथा जीवितनाशनविपाकदोषमिति, “विषं विरक्ता स्त्री" [ ] इति वचनात् । इति 10
गाथार्थः ॥६८॥
एवं सचेतने वस्तुनि रागमधिकृत्य तद्विषयत्तत्त्वादिचिन्तनमुक्तम् । अ[ २५द्वि० ]धुना त्वचेतनमधिकृत्याह—
३१
अत्थे रागम्मि उ अज्जणा दुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥६९ ||
अर्ध्यत इति अर्थः, अर्थविषये पुना रागे अर्जनादिदुःखशतसङ्कुलं तत्त्वम्, अर्थस्य चिन्तयेदिति योगः, अर्जन- रक्षण-क्षय-भोगा हार्थस्य लोकद्वयविरोधिनो दुःखाय । तथा गमनपरिणामयुक्तं अर्थस्य तत्त्वम्, पादरजःसमो ह्ययम् । एवं कुगतिविपाकं चैतत् काकीटोदाहरणेन चिन्तयेत् । इति गाथार्थः ॥ ६९ ॥ एवं रागप्रतिपक्षभावनामभिधाय साम्प्रतं द्वेषमधिकृत्याह
दोसम्म उ जीवाणं विभिष्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए || ७० ||
Jain Education International
द्वेषे पुनः सति जीवा जीवविषये, किम् ? इत्याह- जीवानां विभिन्नतां चिन्तयेत्, अनुरागविषयोपरोधिनि प्रतिहतिर्देष इति ज्ञापनार्थमेतत् अनुरागविषयोऽपि विभिन्नस्तदुपरोध्यपि भिन्न इति भावयेत् । एवं पुद्गलानां च तत्सम्बन्धिनामेव देह - तदुपघातकपुद्रलापेक्षया प्राग्वद् भावनेति । तथा अनवस्थितां परिणति जीव
For Private & Personal Use Only
5
15
20
www.jainelibrary.org