________________
श्रीहरिभद्रसूरिविरचितं
[ गा० ६५
तद्गताध्यात्मगुणानाह
तग्गयचित्तस्स तहोवोगो तत्तभासणं होति । एयं ए[२४-द्वित्थ पहाणं अंग खलु इट्टसिद्धीए ॥६५॥
'तद्गतचित्तस्य' तद्विषयतत्त्वादिगतचित्तस्य 'तथोपयोगतः तेनैकाग्रताप्रकारेणो5 पयोगाद हेतोः, किम् ? इत्याह--- 'तत्त्वभासनं भवति' अधिकृतवस्तुनः तद्भाव
भासनमुपजायते । एतच्चात्र 'प्रधानमङ्ग' श्रेष्ठं कारणम् । 'खलु' इत्येतदेव । कस्याः ? इत्याह – 'इष्टसिद्धेः' भावनानिष्पत्तेः सकललब्धिनिमित्तसाकारोपयोगत्वेन । इति गाथार्थः ॥६५॥
प्राधान्यमेवोपदर्शयन्नाह
एयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेति समयण्ण ॥६६॥
'एतदेव तत्त्वज्ञानं' यदधिकृततत्त्वभासनम् , श्रुत-चिन्तामयनिरासेन भावनामयमित्यर्थः । अत एव 'असत्प्रवृत्तिविनिवृत्तिसञ्जनक' मिथ्याज्ञाननिबन्धनप्रवृत्ति
निवर्तकमिति भावना । तथा 'स्थिरचित्तकारि' उपप्लवत्यागतो निष्प्रकम्पचित्तकारि, 15 विजयसमाधिबीजमित्यर्थः । अत एव लोकद्वयसाधकमौत्सुक्यनिवृत्ति-कुशलानुबन्धा
भ्यामिहलोक-परलोकसाधकमिति हृदयम् । ब्रुवते 'समयज्ञाः' सिद्धान्तज्ञाः । इति गाथार्थः ॥६६॥
व्याख्याता 'गुरु-देवताप्रणामं - कृत्वा' इति द्वारगाथा[६१] । साम्प्रतं 'ज्ञात्वा तितः] तद्विषयतत्त्व' इत्यादि २५-प्र० ]गाथा ६० ] व्याख्यायते । आह-. 20 एवमुत्क्रमदोषः, न, अर्थव्यापारणोत्क्रमत्वासिद्धेः । आह- सौत्रोऽन्यथा किमर्थम् ?
अनन्तरसूत्रेण तथायोगात् , तथा हि- रागादिस्वरूपमभिधाय एतद् ज्ञात्वा तद्विषयतत्त्वादि चिन्तयेदित्येतदेवाभिधातुं युज्यते, कथमिति विधिस्तु पश्चात् तन्नान्तरीयकत्वात् , व्याख्यातः पुनरादौ विधिपुरस्सरत्वात् तद्विषयतत्त्वादिचिन्तनस्येति ।
तदेवमाद्यद्वारगाथावयवन्याचिख्यासयाह- . ३. . थोरागम्मी तत्तं तासि चिंतेज सम्मबुद्धीए ।
कलमलग-मंस-सोणिय-पुरीस-कंकालपायं ति ॥६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org