SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४] स्वोपशटीकालंकृतं योगशतकम् । २९ गुरु-देवताप्रणामं कृत्वा तदनुगृहीतः तद्विषयतत्त्वादि चिन्तयेत् । कथम् ? पद्मासनादिस्थानन कायनिरोधाद्यर्थं दंश-मशकादीन् काये अगणयन् स्ववीर्येण तद्गताध्यात्मः तत्त्वावभासनाय । इति गाथार्थः ।।६१।। एष तावदधिकृतगाथाद्वयस्य समुदायार्थः । अवयवाथै तु स्थूलोच्चयेन ग्रन्थकार एवाभिधातुमाह गुरु-देवयाहि जायइ अणुग्गहो, अहिगयरस तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विष्णेओ ॥२॥ गुरु-देवताभ्यो जायतेऽनुग्रहः, [२४-प्र०] प्रणामादिति गम्यते । 'अधिकृतस्य' तद्विषयतत्त्वादिचिन्तनस्य ततः' अनुग्रहात् 'सिद्धिः' निष्पत्तिः । 'एष च' अनुग्रहः 'तन्निमित्तः' गुरु-देवतानिमित्तः 'तथात्मभावात्' तद्बहुमानालम्बनाद् विज्ञेयः' ज्ञातव्यः, 10 एवं तदा तद्भावेन तन्माध्यस्थ्यादौ । इति गाथार्थः ॥६२॥ एतद्भावनायैवाह जह चेव मंत-रयणाइएहिं विहिसेवगस्स भव्वस्स । उबगाराभावम्मि वि तेसि होइ त्ति तह एसो ॥६३॥ यथैव मन्त्र-रत्नादिभ्यः सकाशाद् विधिसेवकस्य भव्यस्य प्राणिन उपकारा- 15 भावेऽपि तेषां' मन्त्रादीनां भवत्यनुग्रह इति, तथा 'एषः' गुरुदेवतानुग्रहः । इति गाथार्थः ॥६३॥ स्थानादिगुणानाह ठाणा कायनिरोहो तकारीसु बहुमाणभावो य । दंसादिअगणणम्मि वि वीरियजोगो य इटफलो ॥६४॥ 'स्थानात्' पद्मासनादेः कायनिरोधो भवति । 'तत्कारिषु' अन्ययोगिषु गौतमादिषु बहुमानभावश्च, शुभाभिसन्धिना तच्चेष्टाऽनुकारात् । दंशाद्यगणनेऽपि सति वीर्ययोगः । चशब्दात् तत्त्वानुप्रवेशश्च 'इष्टफलः' योगसिद्धिफलः । इति गाथार्थः ॥६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy