________________
श्रीहरिभद्रसूरिविरचित
[गा० ६९युज्यन्ते, मुख्यनिबन्धनोपपत्तेः । 'इतरथा' उक्तप्रकारव्यतिरेकेण 'न' इति न युज्यन्ते बन्धादयः, मुख्यनिबन्धनानुपपत्तेरिति भावनीयम् । 'कृतं प्रसङ्गेन' प्रर्याप्तमित्थमप्रस्तुतेन । इति गाथार्थः ॥५८॥
प्रकृताभिधित्सयाह
तत्याभिस्संगो खल रागो, अप्पीइलक्खणो दोसो ।
अण्णाणं पुण मोहो, को पीडइ मं दढमिमेसि ? ॥५९॥
तत्राभिष्वङ्गः खलु 'रागः' भावरागः, रञ्जनं राग इति कृत्वा । अप्रीतिलक्षणो द्वेषः, स्वरूपस्यैव लक्षणत्वाद् भावद्वेष एव । अज्ञानं पुनर्मोहः, मोहनं मोह इति कृत्वा । कः 'पीडयति' बाधते मां 'दृढम् ' अत्यर्थम् 'अमीषां' रागादीनाम् , 10 एवमात्मप्रेक्षणमिति । सुज्ञानं चैतद् विदुषां शास्त्रानुसारतः क्षयोपशमविशेषात्,
सुप्तमण्डितप्रतिबुद्धादर्शकदर्शनन्यायसिद्धमेतत् । अनीदृशस्य तु योगेऽनधिकार एव । इति गाथार्थः ॥५९॥
अनेन च विधिनैवं किम् ? इत्याह
णाऊण ततो तव्विसयतत्त-परिणइ-विवागदोसे त्ति । 15 चिंतेज्जाऽऽणाए [ २३- द्वि० ] दढं पइरिके सम्ममुवउत्तो ॥६०॥
ज्ञात्वा आत्मानं रागादिबहुलतया 'ततः' तदनन्तरं तद्विषयतत्त्व-परिणति-विपाकदोषानिति चिन्तयेत्, तद्विषयः – रागादिविषयः स्त्र्यादिलक्षणः तस्य तत्त्व-स्वरूपं कलमलादि, परिणतिः - तस्यैव रोग-जरादिरूपा, विपाकः – नरकादि, एत एव
दोषाः, एतान् ‘इति' एवमेव 'चिन्तयेत्' भावयेत् । 'आज्ञया दृढम्' 'आज्ञया' वीत20 रागवचनलक्षणया हेतुभूतया, तस्यास्तत्वावगमादिहेतुत्वात् , 'दृढम्' अत्यर्थं “पइरिके"
इंति देशीपदं एकान्तार्थवाचकम् , एकान्ते – विविक्ते, तत्र व्याघाताभावात् , 'सम्यगुपयुक्तः' साकल्येन विहितक्रियासमेतः, सामग्रीसाध्यत्वाद् अभिप्रेतकार्यस्य । इति गाथार्थः ॥६॥
इहैव विशेषमाह -- 25 गुरु-देवयापणामं काउं पउमासणाइठाणेण ।
दंस-मसगाइ काए अगणेतो तम्गयऽज्झप्पो ॥६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org