SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५८] स्वोपशटीकालंकृतं योगशतकम् । 'अनुभूतवर्तमानः' इति अनुभूतं-प्राप्तं वर्तमानत्वं येन सः, तथा सर्वोऽपि । 'एषः' अतीतकाल: प्रवाहतोऽनादिः, कालशून्यलोकासम्भवात् । 'यथा' इत्युदाहरणोपन्यासार्थः, तथा कर्म ज्ञेयमिति दार्टान्तिकयोजना, प्रवाहतोऽनादीत्यर्थः । भावार्थमाह - कृतकत्वं कर्मणो 'वर्तमानसम' वर्तमानतुल्यम् । यथा हि यावानतीतः कालस्तेन सर्वेण वर्तमानत्वमनुभूतम् अथ च प्रवाहापेक्षयाऽनादिः, एवं यावत् : किञ्चित् कर्म तत् सर्वं कृतकम् अथ च प्र२२-द्वि ०]वाहापेक्षयाऽनादि । इति गाथार्थः ॥५५॥ इहैवाऽऽशङ्काशेषपरिजिहीर्षयाह मुत्तेणममुत्तिमओ उबघाया-ऽणुगहा वि जुज्जंति । जह विण्णाणस्स इई मइरापाणोसहादीहिं ॥५६॥ 10 'मूर्तेन' कर्मणा 'अमूर्तिमतः' जीवस्य, किम् ? इत्याह- उपघाता-ऽनुग्रहावपि युज्येते, अन्यत्र तथोपलम्भादित्यभिप्रायः । निदर्शनमाह - यथा विज्ञानस्य 'इह' लोके 'मदिरापानौषधादिभिः' मदिरापानेनोपघातः, ब्राहयाद्यौषधादनुग्रहः । इति गाथार्थः ॥५६॥ प्रस्तुतनिगमनायाह 16 एवमणादी एसो संबंधो कंचणोवलाणं व। एयाणमुवाएणं तह वि विओगो वि हवइ त्ति ॥५७॥ 'एवम्' उक्तन्यायाद् अनादिरेष सम्बन्धः । निदर्शनमाह - काञ्चनोपलयोरिव, निसर्गमात्रतयोदाहरणम् . 'एतयोः' इति जीव-कर्मणोः यद्यप्येवम् ‘उपायेन' सम्यग्दर्शनादिना तथापि वियोगोऽपि भवति, क्षार-मृत्पुटपाकादिना काञ्चनोपल- 20 योरिव । इति गाथार्थः ॥५७॥ एवं[ २३-प्र० ] व्यवस्थिते सति प्रस्तुतसौविहित्यमाह एवं तु बंध-मोक्खा विणोवयारेण दो वि जुज्जति । सुह-दुक्खाइ य दिहा, इहरा ण, कयं पसंगेण ॥५८॥ एवमेव बन्ध-मोक्षौ सकलसमयसिद्धौ ‘विनोपचारेण' उपचारं विना द्वावपि.25 'युध्येते' घटेते, अकल्पितावित्यर्थः । सुख-दुःखादयश्च 'दृष्टाः' सकललोकसम्मताः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy