________________
श्रीहरिभद्रसूरिविरचितं [गा० ५३अधिकृतश्रुता-ऽर्थोभयविद् अभ्यस्तभावनामार्ग आचार्यः, तस्मिन् श्रवणम्, अनीदृशात् तत्त्वतः संज्ञानासिद्धेः । एतच्च 'असकृत्' अनेकशः तीर्थश्रवणम्, कुज्ञानादाविह महाप्रत्यपायोपपत्तेः । एवं 'तदर्थज्ञाने सति' भावनाश्रुतार्थज्ञाने सति, किम् ? इत्याह
'ततश्च तदनन्तरं च 'आत्मप्रेक्षणम्' आत्मनः प्रकर्षण ईक्षणं – निरूपणमित्यर्थः । 5 कथम् ? इत्याह--- 'अतिनिपुणम्' इति स्वतः परतः स्वभावादिभिः । 'दोषापेक्षया'
दूषयन्तीति दोषाः-रागादयः तदपेक्षया, किमहं रागबहुलो मोहबहुलो द्वेषबहुल: ? अ(इ)त्युत्कटदोषप्रतिपक्षभावनाभ्यासोपपत्तेः । इति गाथार्थः ॥५२॥
इह दोषापेक्षयेत्युक्तं इति दोषाणामेव स्वरूपमाह
रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥
रागो द्वेषो मोह एते 'अत्र' प्रक्रमे आत्मदूषणा दोषाः, एते च स्वरूपतः कर्मोदयसञ्जनिता विज्ञेया आत्मपरिणामाः स्फटिकस्येव रागादय इति । तत्राभिष्वगलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणो मोह इति, एते चात्म-कर्मपरमाणुतत्स्वभावतया तत्त्वतो द्वन्द्वजा धर्माः । इति गाथार्थः ॥५३॥ 15 कर्मोदयसञ्जनिता इत्युक्तम् अतः कर्मस्वरूपमाह -
कम्मं च चित्तपोग्गलरून जीवस्सऽणाइसंबद्धं । मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं ॥५४॥
'कर्म च ज्ञानावरणीयादि । किम् ? इत्याह – 'चित्रपुद्गलरूपं' ज्ञानाद्यवबन्धकस्वभावविचि २२-प्र० ]त्रपरमाणुरूपं 'जीवस्य' अत्मनः 'अनादिसम्बई' तत्त220 स्वभावतया प्रवाहतोऽनादिसङ्गतमित्यर्थः । एतच्च मिथ्यात्वादिनिमित्तं "मिथ्यात्वा
ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः" [ तत्त्वार्थ अ० ८ सू० १ ] इति वचनात् , 'न्यायेन' नीत्या 'अतीतकालसमम्' अतीतकालतुल्यम् । इति गाथार्थः ॥५४॥
तद्भावनायैवाह
अणुभूयवत्तमाणो सब्यो वेसो पवाहओऽणादी । जह तह कम्मं णेयं, कयकत्तं वत्तमाणसमं ॥५५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org