________________
10
महानर्थनिवृत्तेरिति । तथा सुकृतानुमोदना चैव, सकलसत्त्वसङ्गतं मोक्षानुकूलं यदनुष्ठानं अनेकभेदभिन्नं तस्य महता पक्षपातेन स्वभावचिन्तासारा प्रशंसेति भावः, तदुपादेयतायां तद्वहुमानविशेषे नियोगत इयम् , नान्यथा । एवं च महदेतत् कल्याणाझं वनच्छेत्त-बलदेव-मृगोदाहरणेन सुप्रसिद्धमेवेति । 'एष गणः' चतुःशरणगमनादिः सर्व एव 'अनवरतं' प्रायः सर्वकालमेव 'कर्तव्यः' अनुष्ठेयः, भावनीय । इति यावत् । 'कुशलहेतुः' अपायपरिहारेण कल्याणहेतुरिति कृत्वा । तथा च महती गम्भीरा चास्य कुशलहेतुता, भावसारतया तत्त्वमार्गप्रवेशात् । परिभावनीयमेतदचिन्त्यचिन्तामणिकल्पं भावधर्मस्थानम् । इति गाथार्थः ॥५०॥
प्रस्तुत एव योगाधिकारे विशेषमभिधातुमाह[२१-प्र० ] घडमाण-पवत्ताणं जोगीणं जोगसाहणोवाओ।
- एसो पहाणतरओ णवर पवत्तस्स विष्णेओ ॥५१॥
'घटमान-प्रवृत्तयोयोगिनोः' अपुनर्बन्धक-भिन्नप्रन्थिलक्षणयोः, निष्पन्नयोगिव्यवच्छेदार्थमेतत् । घटमान-प्रवृत्तयोरेव योगिनोः योगसाधनोपायः एषः' अनन्तरोदितो वक्ष्यमाणलक्षणश्च । निष्पन्नयोगस्य त्वन्यः, केवलिनः स्वाभाविकः शैलेशीपर्यन्तः । एवं च “सांसिद्धिको निष्पन्नयोगानामधिकारमात्रनिवृत्तिफलः' इत्येतदपि परोक्तमत्रा- 15 विरुद्धमेव, अर्थतस्तुल्ययोगक्षेमत्वात् । समुद्धातकरणशक्त्या हि कर्मवशितायां सत्यां तथादेशनादियोगः सं(सा)सिद्धिक ए[व] भगवत इति भावनीयम् । तथा 'एषः' वक्ष्यमाणलक्षणः प्रधानतरो नवरं प्रवृत्तस्य 'विज्ञेयः' ज्ञातव्यः तथातदधिकारस्वभावत्वात् । इति गाथार्थः ॥५१॥ एनमेवाभिधातुमाह
भावणसुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि । तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥ 'भावनाश्रुतपाठः' रागादिप्रतिपक्षभावनं भावना, तत्प्रतिबद्धं श्रुतं भावनाश्रुतम्, रागादिनिमित्त-स्वरूप-फलप्रतिपादकमित्ययः, तस्य पाठः- विधिनाऽध्ययनम्, अन्यथा त्वन्यायोपात्तार्थवत् ततः कल्याणाभावात् । एवं पाठे सति तीर्थे श्रवणम् , पाठा- 25 भावे तन्निराकार्यक्लेशानपगमेन सम्यक्तदर्थज्ञानायोगात् , “अप[ २१-द्वि० ]रिपाचितमलखंसनकल्पं ह्यपाठ श्रवणम्"
] इति वचनात् । तीर्थम्
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only