________________
बाहारमारापराचत
गा० ५०आह-पुरुषकारेण तद्युपक्रम्यते, एवं च कृतनाशा-ऽकृताभ्यागमप्रसङ्गः, अन्यथावेदनीयस्वभावस्यान्यथावेदनात् , . तथावेदनीयस्वभावत्वे त्वस्य पुरुषकारवैयध्ये [२०-प्र०] तस्यैव तथास्वभावत्वेनास्य तेनैवाक्षेपादिति ।
उच्यते -- यत्किञ्चिदेतत् , अभिप्रायापरिज्ञानात् । अनियतस्वभावं हि > कर्म सोपक्रमम् , तदेव च पुरुषकारविषय इत्युक्तदोषाभावः । एतच्च दार्वादौ प्रति
मादियोग्यताकल्पम् , तथाप्रमाणोपपत्तेः । न हि योग्यान्नियमेन प्रतिमादि, न च तदभावे सति अयोग्यमेतत् , तल्लक्षणविलक्षणत्वात् , तथाप्रतीतेः सकललोकप्रसिद्धत्वात् । प्रतिमादिकल्पश्च पुरुषकार इति भावनीयम् । न च दावेव प्रतिमाक्षेपकमिति न्या
व्यम् , सर्वत्र तत्प्राप्तेः, योग्यस्यापि वाऽयोग्यत्वप्रसङ्गात् : तद्भेदस्य च नैश्चथि10 कस्यालौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात् , तथाविधयोग्यतातुल्यं च
कर्मणोऽनियतस्वभावत्वम् । किञ्च – कर्मापि पुरुषकाराक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् ? । अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रे
ष्टफलसिद्धेः, अन्यथायोगादतिप्रसङ्गादिति । एवमुभयजेऽपि तत्त्वे तदुदग्रतादिरूप। तत्प्राधान्यादिनिबन्धना कर्म-पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम् । निलोठितं चैतद् उपदेशमालादिष्विति नेहे प्रतन्यते । इति गाथार्थः ॥४९॥
प्रस्तुतार्थसाधकमेव विधिमभिधातुमाह
चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायन्वो कुसलहेउ ति ॥५०॥
20 'चतुःशरणगमनम्' अर्हत्-सिद्ध-साधु-केवलिप्रज्ञाप्तधर्मशरणगमनम् , आचार्योपा
ध्याययोः सा[२०-द्वि ० ]धुष्वेवान्तर्भावात् , केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति, गुणाधिकस्य शरणत्वात् , गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्ट
कर्मविगमेन शान्तिरिति । तथा 'दुष्कृतग' अनादावपि संसारेऽनाभोगादिना प्रकारेण 25 कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्-सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सेत्यर्थः । भवत्यतस्तद्धेयत्वभावनया अनुबन्धादिव्यवच्छेदः, शोभनश्चायं
१. 'नेह प्रयत्नत इति' प्रतौ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org