________________
४९] स्वोपशटीकालंकृतं योगशतकम्। २३ ___अकुशलकोंदयपूर्वरूपम् ‘एषा' अरतिरधिकृतगुणे यतः समाख्याता भगवद्भिः । यदि नामैवं ततः किम् ! इत्याह- ‘स पुनः' अकुशलकर्मोदयः उपायसाध्यः प्रायेण 'भयादिषु' भय-रोग-विषेषु प्रसिद्धः । इति गाथार्थः ॥१६॥
एतदेवाहसरणं भए उवाओ, रोगे किरिया, विसम्मि मंतो ति।
एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥ 'शरण' पुरस्थानादि ‘भये' अन्यसमुत्थपीडारूपे 'उपायः' प्रक्रमात् तत्प्रत्यनीकः । तथा 'रोगे' व्याधौ चिरकुष्टादौ 'क्रिया' चिकित्सोपायः । तथा 'विपे' स्थावर-जङ्गमरूपे मन्त्रः' देवताधिष्ठितोऽक्षरन्यासः । इत्युपायः पूर्ववत् तत्प्रत्यनीक एव । 'एतेऽपि' शरणादयः ‘पापकर्मोपक्रमभेदा एव' भयमोहनीयादिपापकर्मोपक्रम- 10 विशेषा एव [ १९-द्रि० ] 'तत्त्वतः' परमार्थतः, कारणे कार्योपचारात् । इति गाथार्थः ॥४७॥ एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह
सरणं गुरू उ इत्थं, किरिया उ तवो त्ति कम्मरोगम्मि। मंतो पुण सज्झाओ मोहविसविणासणो पयडो ॥४८॥ 1)
शरणं गुरुरेव अत्र' कर्मभये । क्रिया तु 'तप इति' तप एव षष्ठादि, क्व ? इत्याह--'कर्मरोगे' कर्मव्याधौ । मन्त्रः पुनः ‘स्वाध्यायः' वाचनादिः, सामर्थ्याद् विषे । तथा चाह– 'मोहविषविनाशनः' कर्मजनिताज्ञानविषविनाशनः 'प्रकटः' अनुभवसिद्भः । इति गाथार्थः ॥४८॥ प्रक्रान्तासेवनाफलमाह---
एएमु जत्तकरणा तस्सोवकमणभावओ पायं ।
नो होइ पचवाओ, अवि य गुणो, एस परमत्थो ॥४९॥ ‘एतेषु अधिकृतशरणादिषु यत्नकरणादाज्ञानुसारेण 'तस्य' प्रक्रमादधिकृतारतिनिबन्धनस्य कर्मणः 'उपक्रमणभावतः' उपक्रमणस्वभावत्वात् 'प्रायः' बाहुल्येन, निरुपक्रमाकुशलकर्मभावे तु प्रायो गुणस्थानाप्त्यभावाद् , न भवति प्रत्यपायोऽधिकृता- 3:, रतिसमुत्थः, अपि च गुणस्तदन्योपक्रमणानुबन्धच्छेदादिना, एष परमार्थः, अन्यथा पुरुषकारवैयादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org