SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिविरचितं [गा०४४[१८-द्वि ०]न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । . अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥ योगबिन्दुः २२२-२६] इति गाथार्थः ॥१३॥ प्रतिपन्नाधिकगुणस्थानकस्य विधिमाह उड् अहिगगुणेहिं तुल्गुणेहिं च णिच्च संवासो।। तग्गुणठाणोचियकिरियपालणासइसमाउत्तो ॥४४॥ 'ऊर्ध्वम् अधिकगुणस्थानप्रतिपत्तेरुत्तरकालं. अधिकगुणैस्तुल्यगुणैश्च प्राणिभिरात्मापेक्षया नित्यं संवासः । संवासो नाम औचित्येन तदुपजीवनादिनिजराफलः । 10 तथा 'तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः' अस्मिन् गुणस्थानके व्यवस्थितेनेदं चेदं च कर्तव्यमिति स्मृतिसमन्वागतस्तदेव कुर्यात् । इति गाथार्थः ॥४४॥ उत्तरगुणबहुमाणो सम्म भवरूवचिंतणं चित्तं । अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥४५॥ उत्तरगुणबहुमानः, अधिकृतगुणस्थानकापेक्षया उत्तरगुणस्थानकगुणराग इत्यर्थः । 15 तथा 'सम्यग्' वासितेनान्तःकरणेन संवेगक्रियासारं 'भवरूपचिन्तन' संसारस्वभा वालोचनं 'चित्र' नानाप्रकारं कर्तव्यम् । तद्यथा – इह असारं जन्म, आश्रयो जरादीनाम् , व्याप्तं दुःखगणेनं, चला विभूतयः, अनवस्थिताः स्नेहाः, दारुणं विषयविषम् , रौद्रः पापकर्म(१९-प्र०)विपाकः पीडाकरोऽनुबन्धेन, मिथ्याविकल्पं सुखम् , सदा प्रवृत्तो मृत्युरिति, न धर्माद् ऋतेऽत्र किञ्चित् कर्तुं न्याय्यम् इत्येवमादि । 20 तथा अरतौ चाधिकृतगुणविषयायां चित्रकर्मोदयेन, किम् ? इत्याह- तथा तथा' तेन तेन प्रकारेण भावशरणादिलक्षणेन 'यत्नकरणं तु' यत्न एव कर्तव्यः । इति गाथार्थः ॥४५॥ किमित्येतदेवम् ! इत्याह अकुसलकम्मोदयपुव्यरूवमेसा 'जओ समक्खाया । सो पुण उवायसज्झो पाएण भयाइसु पसिद्धो ॥४६॥ ____15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy