________________
स्वोपशटीकालंकृतं योगशतकम् । विधिज्ञमहापुरुषगुरुसकाशे, प्रायशो भावाद् भावप्रसूतिः, क्वचित् केवलादप्याज्ञाराधनाद् आज्ञासमये कर्मवैचित्र्याद् अङ्गारमर्दककुगुरु-शिष्यन्यायेन, अतः सुगुरुसमीपे प्रतिपयते इत्ययमुपायः । तथा विधिना' तत्रापि वन्दनशुद्धयादिलक्षणेन । न हि सुगुरोरविधिरिति विधिसिद्धावपि विधिग्रहणं प्राधान्यख्यापनार्थमदुष्टम् । इति गाथार्थः ॥४२॥
अत एव विशेषतो विधिमभिधातुमाह --
बंदणमाई उ विही णिमित्तसुद्धी पहाण मो णेओ । • सम्म अवेक्खियधा एसा, इह[१८-प्र० रा विही ण भवे ॥४३॥
वन्दनादिः पुनर्विधिः तुलादण्डमध्यग्रहणनीत्या क्षेत्रशुद्धि-तत्सत्कार-जिनपूजारूपः तथा चैत्यवन्दन-तद्वन्दन-निरुद्धादिरूपश्च गृह्यते । अयं च निमित्तशुद्विप्रधान In एव ज्ञेयः, स्व-परगतकायिकादिनिमित्तशुद्धिप्रधान इत्यर्थः । ‘भाविन इष्टादेः सूचकानि निमित्तानि' इत्येतच्छुद्धिरपेक्षणीया, अत एवाह- सम्यगपेक्षितव्या 'एषा निमित्तशुद्धिः । 'इतरथा' तदनपेक्षायां विधिन भवति, आज्ञाविराधनात् । लेशाभिधानमेतत् , अत्र तु विशेषो विशेषग्रन्थानुसारत एव द्रष्टव्यः । सर्वथा नेदं लोकव्यवहारवद् यथाकथञ्चित्प्रतिपन्न प्रतिपन्नं भवति, किन्तु शास्त्रानुसारत इति शास्त्रमे- 15 वानुसरणीयम् , अन्यथा प्रत्यपायभावादिति । उक्तं च
उपदेश विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति क्षेत्राऽऽस्तो भवेत् ॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ॥ तस्मात् सदैव धर्मार्थ शास्त्रयत्नपरो भवेत् । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥ शास्त्रं चिन्तामणिः श्रेष्टः, शास्त्र कल्पद्रुमः परम् ।
चक्षुः सर्वत्रगं शास्त्र, शास्त्रं धर्मस्य साधनम् ।। १. तत्राऽऽदरो हितः इति योगबिन्दौ ॥ २. धमार्थी शास्त्रयत्नः प्रशस्यते इति योगाबन्दी ॥ ३. पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। इति योगबिन्दौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org