________________
-
श्रीहरिभद्रसूरिविरचितं
[गा०४०तत्र योगशुद्धिमधिकृत्याह
गमणाइएहिं कायं गिरवज्जेहिं. वयं च भणिएहिं ।
सुहचिंतणेहि य मणं, सोहेजा जोगसुद्धि ति ॥४०॥ 'गमनादिभिः' गमना-ऽऽसन-स्थानैः 'कार्य' देहम् । किम्भूतैः ! इत्याह'निरवधैः' अपापैः । वाचं च भणि १७-३० तैर्निरवधैरेव । 'शुभचिन्तनैश्च धर्माविरोधिभिः साधकैर्वा मनः शोधयेत् । एषा योगशुद्धिः । तथा मध्यमादिभेदेन तत्तद्गुणस्थानापेक्षयेत्येवं निजस्वभावालोचन-जनवादावगमयोरपि शुद्धिः स्वबुद्धया द्रष्टव्या । इति गाथार्थः ॥४०॥
___ इहैव मतान्तरमभिधातुमाह10 सुहसंठाणा अण्णे कार्य, वायं च सुहसरेणं तु ।
सुहसुविणेहिं च मणं, जाणेज्जा साहु मुद्धि त्ति ॥४१॥
'शुभसंस्थानात्' उन्मान-मान-गति-सारादिशुद्धात् , पुरुषलक्षणोपलक्षणमेतत् , 'अन्ये तन्त्रान्तरीया एवं मन्यन्ते । कार्य तद्योगोचितं जानीयादिति योगः। तथा वाचं
च ‘शुभस्वरेण' गम्भीर-मधुराऽऽज्ञापकादिभेदभिन्नेन तद्योगोचितां जानीयात् । तथा 15 'शुभस्वप्नैश्च शुक्लस्वप्नरूपैः समुद्र-नदो-हृदप्रतरणादिभिः सन्ततेतरादिभेदभिन्मनो जानीयात् । तत्तद्योगौचित्यमङ्गीकृत्येति प्रक्रमः । 'साधु शुद्धिरिति शोभनव योगशुद्धिः । इति गाथार्थः ॥४१॥
एतदपि तन्त्रान्तरीयमतं साध्वेव, न ह्यमहापुरुषा योगिनो भवन्ति, योगस्य भावैश्वर्यादेरमहापुरुषाभावतोऽस्य गुरुतरत्वोपपत्तेः, दृश्यन्ते चैवंविधानामेव महा20 पुरुषाणां तदि. १७-द्वि ० ]तरमहापुरुषेभ्यो भावसारमनिन्दितप्रतिपत्त्यादीनि । कृतं
प्रसङ्गेन । एवं तावदोघत एवौचित्यगतमिह विधिमभिधाय अत्रैव प्रतिपत्तिगतमभिधित्सुराह
एत्थ उवाओ य इमो सुहदव्याइसमवायमासज्ज ।
पडिवज्जइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ 25 'अत्र' औचित्ये सत्यधिकस्थानप्रतिपत्तौ 'उपायश्चार्य' साधनप्रकारंविशेषः,
यदुत शुभं द्रव्यादिसमुदायं-द्रव्य-क्षेत्र-काल-भावसंयोगं 'आश्रित्य' अधिकृत्य प्रतिपद्यते 'गुणस्थानं' देशसामायिकादि । क्व ? इत्याह- 'सुगुरुसमीपे' तदधिकगुणोपेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org