________________
वृद्धाः । तथा 'नष्टनाशनात्' नष्टा एते प्राणिनोऽयोग्यतया विपरीतोपदेशेन नाशिता भवन्ति । तथा 'धर्मलाघवात्' हेतोः विपरीतोपदेशाद्धि तत्त्वाप्रतिपत्त्या वितथासेवनेन धर्मलाघवम् । इति गाथार्थः ॥३७॥
. एवं संप्रसङ्गमुपदेशविधिमभिधाय एतत्परिणत्युत्तरकालं यत् कार्य तद्गतं विधिमभिधातुमाह
एयम्मि परिणयम्मी पवत्तमाणस्स अहिंगठाणेसु । एस विही अइणिउणं पायं साहारणो णेओ ॥३८॥
'एतस्मिन्' उपदेशे परिणते भावप्रतिपत्तिद्वा[ १६-प्र०रण । किम् ? इत्याह-- प्रवर्तमानस्य सतः । क्व ? इत्याह– 'अधिकस्थानेषु' औचित्यापेक्षया तदुत्तरोत्तरगुणरूपेषु । किम् ! इत्याह – 'एष विधिः' वक्ष्यमाणलक्षणः अतिनिपुणम् 10 क्रियाविशेषणमेतत् । 'प्रायः बाहुल्येन, अपुनर्बन्धकादिव्यवच्छेदार्थमेतत् , अणुव्रतादेरारभ्येति भावः । ‘साधारणः' सामान्यो ज्ञेयः 'अतिनिपुणं' प्रारब्धसिद्धयङ्गतया, विपर्यये विपर्ययभावात् । इति गाथार्थः ॥३८॥
किंविशिष्टोऽयं विधिः ? इत्याह----
निययसहावालोयण-जणवायात्रगम-जोगसुद्धीहिं ।
उचियत्तं णाऊणं निमित्तो सइ पयटेज्जा ॥३९॥ 'निजस्वभावालोचन-जनवादावगम-योगशुद्धिभिः' करणभूताभिः उचितत्वं ज्ञात्वा तत्तद्गुणस्थानकापेक्षया आत्मनस्ततः ‘निमित्ततः' निमित्तात् कायिकादेः सदा प्रवर्तेत तस्मिंस्तस्मिन् गुणस्थानके इति । तत्र निजस्वभावालोचनम् – 'कीदृशो मम स्वभावः ? केन गुणस्थानके[ १६-द्वि० ]न संवादी विसंवादी वा ?' इत्येवंरूपम् , 20 न हि तत्स्वभावानानुगुण्ये तदङ्गीकरणं श्रेयः, तत्सिद्वयसम्भवाद् विडम्बनामात्रत्वात् । तथा जनवादावगमः -- 'किं जनो मम वक्ति ? किं नु गुणस्थानकमङ्गीकृत्य योग्यता सम्भावयति ?' तत्रैव प्रवृत्तिाय्या, नेतरत्र, अस्य माननीयत्वात् । तथा योगशुद्धिः – काय-मनो-बाग्व्यापारशुद्धिः, "कीदृशा मम योगाः ? कस्य गुणस्थानकस्य साधकाः ? न ह्येतत्प्रतिकूलमपि सर्वथा गुणस्थानकं प्रतिपत्त न्याय्यम् , उपहास्य- 25 प्रायमेतद् अनिष्टफलं च” इत्याचार्याः । अत एभिर्निजस्वभावालोचनादिभिः उचितत्वं ज्ञात्वा निमित्ततः सदा प्रवर्तेत । इति गाथार्थः ॥३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org