SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिविरचितं [गा० ३६'संवरनिश्छिद्रत्वं' आश्रवनिश्छिद्रत्वं यतेरुपदेशः । संवरच्छिद्रं हि गिरिशिखरात् पातालतलपातः । तथा 'शुद्रोच्छजीवन' आधाकर्मादित्यागेन सुपरिशुद्ध कल्पनीत्यनुसारतः । तथा विधिस्वाध्यायः' विधिना-वन्दनादिलक्षणेन वाचनाद्य नुष्ठानम् । तथा 'मरणाद्यपेक्षणं' मरण-प्रमादजकर्मफलाद्यपेक्षणं 'यतिजनोपदेशः' 5 इत्ययमेवम्भूतो यतिजनस्योपदेशः । इति गाथार्थः ॥३५॥ उपदेशानुपदेशे प्रयोजनमाह उदए। १५-प्र० ] सोऽबिसयम्मी चिसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ॥३६॥ 'उपदेशः' अनन्तरोदितः सामान्येन वा ‘अविषये' अपुनर्बन्धकादित्रयादन्यत्र 10 संसाराभिनन्दिनि अनुपदेश इति सम्बन्धः. तत्त्वावबोधादिकार्याकरणाद् विपर्ययसाधनाच्चेति । उक्तं च अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ [लोकतत्त्व० श्लो०७] इत्यनुपदेशः । तथा 'विषयेऽपि' अपुनबन्धकादौ ‘अनीदृशः' उक्तविपरीतः क्षयोप15 शमानुगुण्याभावेन अनुपदेशः, पुरुषमात्रापुरुषवद् विशिष्टस्वकार्याकरणात् । अयं चैवम्भूत उपदेशोऽनुपदेशः । किम् ? इत्याह--बन्धनिमित्तं नियमात् , श्रोत्र:निष्टापादनाद् आज्ञाविराधनाच्च, अत इथं न कार्यः । 'यथोदितः पुनः' आज्ञापरिशुद्धया भवति योगः, मोक्षेण योजनात् । इति गाथार्थः ॥३६॥ एवं सामान्येन उपदेशानुपदेशे प्रयोजनमभिधाय प्रत्यपायपरिजिहीर्षया 20 विशेषतोऽभिधित्सुराह गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । जोगिगुणहीलणा गहणासणा ध( १५-द्वि० म्मलाघवओ ॥३७॥ 'गुरोः' आचार्यस्य योगिन इत्यर्थः, ‘अयोगियोगः' अयोगिव्यापारो विपरीतोपदेशादिः अत्यन्तविपाकदारुणो ज्ञेयः अतिशयेन दारुण इत्यर्थः । 25 कुतः ? इत्याह – योगिगुणहीलनात् कारणात् । एवं हि विडम्बकप्रतिपत्तिन्यायेन तद्गुणा हीलिता भवन्ति । "उत्तमपदस्थस्य तद्धर्माननुपालनमघोषणा विडम्बना" इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy