________________
स्वोपशटीकालंकृतं योगशतकम् । एवमादिवस्तुविषयः, आदिशब्दात् तत्प्रकृत्यपेक्षया अन्योऽपि व्रतसम्भवादिसूक्ष्मपदार्थालम्बनो गृह्यते । 'गृहिणां' श्रावकाणामुपदेशो मन्तव्यः, उक्तहेतुभ्योऽस्य साफल्योपपत्तेः । अधुना सर्वचारित्रिणमधिकृत्याह– 'यतेः पुनः' प्रबजितस्य पुनः भावत उपदेशः, कः ? इत्याह– 'सामाचारी' शिष्टाचरितक्रियाकलापरूपा भवति सर्वा 'यथा' कर्मक्षयोपशमयोग्यतापेक्षया । इति गाथार्थः ॥३२॥
एनामधिकृत्याह
गुरुकुलबासो गुरुतंतयाय उचियविणयस्स करणं च ।
वसहीपमज्जणाइसु जत्तो तहकालवेक्खा[१.४-प्र०]ए ॥३३॥ गुरुकुलवासो मूलगुणो यतेः, “सुयं मे आउसंतेण"[ आचाराङ्ग श्रु० १ अ० १ उ०१ सू० १ ] इति वचनप्रामाण्यात् । कथमयमिष्यते ? इत्याह- गुरुतन्त्रतया' 10 गुरुपारतन्त्र्येण आत्मप्रदान-सत्यपालनेन । तथा 'उचितविनयस्य' ज्ञानविनयादेः 'करणं च' सेवनं च, भगवदाज्ञेति कृत्वा । तथा वसतिप्रमार्जनादिषु क्रियाभेदेषु यत्नः, आदिशब्दाद् उपधिप्रत्युपेक्षणादिग्रहः, तथाकालापेक्षया न तु यदृच्छाप्रवृत्या । इति गाथार्थः ॥३३॥
तथा---
अणिगृहणा बलम्मी सव्वस्थ पवत्तणं पसंतीए ।
णियलाभचिंतणं सइ अणुग्गहो मे ति गुरुवयणे ॥३४॥ 'अनिगृहना' अप्रच्छादना बले शारीरे औचित्यप्रयोगेण, एतद्धि यदन्यथागतं गतमेव निष्फलमित्येतदालोच्य । तथा 'सर्वत्र श्रमणयोगे उपधिप्रत्युपेक्षणादौ प्रवर्तनं प्रशान्त्या, क्षात्यादिमन्थरमित्यर्थः । निजलाभचिन्तनं सदा निर्जरा १४- 20 द्वि० ]फलमङ्गीकृत्य । 'गुरुवचने' गुर्वाज्ञायामिति सम्बन्धः । कथम् ? इत्याह'अनुग्रहो ममेति' यदयमित्थमाह 'इति' एवं दुर्लभाः खलु चित्ररोगाभिभूतानां सदुपदेशदातारः सुवैद्या इत्याधुदाहरणैः । इति गाथार्थः ॥३४॥ तथा---
संवरणिच्छिडुत्तं सुद्धंछुज्जीवणं सुपरिसुद्धं । विहिसज्झाओ मरणादवेक्षणं जइजणुवएसो ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org