SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिविरचित [गा० ३२'योगः' अन्वर्थयोगाद् मोक्षेण योजनात् । किं पुनयों भावनामार्गः १ स बन्धुः परमध्यानस्य, स योग एव, अनुष्ठेयश्चायं श्रावकेण । तथा पुण्यदेशे सङ्क्लेशविधाताय पद्मासनादिना गुरुप्रणामपूर्वमर्थसन्तानेन “असारो जीवलोक इन्द्रजालतुल्यः, विषकल्पा विषयाः, वज्रसारं दुःखम् , चलाः प्रियसङ्गमाः, अस्थिरा सम्पत् , दारुणः प्रमादः महादौगत्यहेतुः, दुर्लभं मानुष्यं महाधर्मसाधनम् इति अलं ममान्येन, करोम्यत्र यत्नम्, न युक्ता पुत्रो पेक्षा, प्रभवति मृत्युः, दुर्लभं दर्शनं सद्गुरुयोगश्च” इति प्रशस्तभावगतेन । एवं चास्ति गृहिणोऽपि योगसम्भव इति । उक्तं च--- योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो [ १३-द्वि ० ] ध्रुवः ।। वेलावलनवन्नद्यास्तदापूरोपसंहृतेः । प्रतिस्रोतोऽनुगत्वेन प्रत्यहं वृद्धिसङ्गतः ॥ । भिन्नग्रन्थेस्तु यत् प्रायो मोक्षे चित्तं, भवे तनु । तस्य तत् सर्व एवेह योगो योगो हि भावतः ॥ नार्या यथाऽन्यसक्तायाः तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ।। न चेह प्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्यापि तत्र चित्तं न जायते ॥" [ योगबिन्दुः श्लोक २०१-५] "सांसिद्धिकमनुष्ठानमत एव सतां मतम् । 20 भावाढ्यं स्तोकमप्येतत् प्रतिबन्धविशेषतः ॥ अस्यापि तत्त्वतः सर्वमेतदेवंविधं यतः । नित्यकर्मनियोगेन ततो योग इति स्थितम् ॥" इति गाथार्थः ॥३१॥ अपान्तरालाधिकारोपसंहारमाह-- 25 एमाइवत्थुविसओ गिहीण उवएस मो मुणेयव्यो । जइणो उण उवएसो सामायारी जहा सव्वा ॥३२॥ १ आद्य पद्यद्वधं गोपेन्द्रयोगशास्त्रगतमिति श्रीहरिभद्रपादैोगबिन्दावुक्तम् ॥ २ °संयुतः योगबिन्दौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy