________________
३१] स्वोपक्षटीकालंकृतं योगशतकम् । १५ पस्थ्याप्यादिगोचरः “प्रासादविषयः तन्मूल-पादशोधनादि"न्यायेन । कथं दातव्योऽयमुपदेशः ? इत्याह – “गयणिपुणे” इति क्रियाविशेषणम्, सद्भावानयनहेतुराक्षेपणादिरूपः प्रकार इह नयः, तन्निपुणम्, 'भावसारः' स्वतो वासितेनान्तःकरणेन संवेगसारः, प्रायशो भावाद् भावप्रसूतेः । इति गाथार्थः ॥२९॥
एतदुपदर्शनायाऽऽह-[ १२-द्वि०] सद्धम्माणुवरोहा वित्ती दाणं च तेण मुविसुद्धं ।
जिणपूय-भोयणविही संझाणियमो य जोगंतो ॥३०॥
सद्धर्मानुपरोधाद भूमिकौचित्येन, तद्यथा- अणुव्रतधरस्य तावत् कर्मादानत्यागेन 'वृत्तिः' वर्तनमित्यर्थः । दानं च तेन सुविशुद्ध' सद्धर्मेणैव शक्तितः, श्रद्धासत्कार-काल-मतिविशेषाकामादिविषयेणवृत्यनन्तरं( ? ) नित्यमेतद् गृहिण इति ज्ञाप- 100 नार्थमेतत् । तथा 'जिनपूजा-भोजनविधिः' जिनपूजाविधिः भोजनविधिश्च, तद्यथा--- "द्रव्य-भावशुचित्वम् , कालाभिग्रहः, सन्माल्यादीनि, व्यूहे प्रयत्नः, कण्ड्वाद्यतिसहनम्, तदेकाग्रता, सस्तवपाठः, विधिवन्दनम् , कुशलप्रणिधानमिति । तथा---उचितदानक्रियाभावे नियोगः, कीटिकाज्ञातम्, परिग्रहेक्षा, औचित्येन वर्तनम्, स्थानोपवेशः, नियमे स्मृतिः, अधिकक्रिया, व्रणलेपवद् भोगः" इति । तथा ‘सन्ध्यानियमश्च' चैत्य- 1 गृहगमनादिः 'योगान्तः' चित्रभावनावसानः । इति गाथार्थः ॥३०॥
न गृहिणो योगसम्भवः इत्याशङ्कापोहायाहचिइबंदण जइविस्सामणा य सवणं च धम्मविसयं ति ।
गिहिणो इमो वि जोगो, किं पुण जो भावणामग्गो ? ॥३१॥ .
'चैत्यवन्दनं' "भुवनगुरुरयं वन्दनीयः सताम्, एतदेव तत् तत्त्वम् , सैषा गुणज्ञता, 28 महाकल्याणमेतत्, दुःखाच लवजम्, सुखकल्पपादपः, जीवलोकसारः, दुर्लभानां शेखरः एतच्चैत्यवन्दनम्" इति समुल्ल[ १३-प्र० ]सदसमसम्मदामोदम् । तथा 'यतिविश्रामणा च' "चारित्रिण एते एतदुद्यता इति नातः परं कृत्यम् , प्रकर्षोऽयं. गुणानाम, रक्ष्य एष काय आत्मनो नियोगेन, तदुत्सर्पणोऽयम् , बीजमेतद् भावस्य, महावीर्यमेतत् , उचिता विश्रामणा" इति महाविवेकसारसंवेगसारता । तथा 'श्रवणं धर्मविषयमिति' 25 "उत्तमः श्रुतधर्मः, मोहतमोरविः, पापवध्यपटहः, प्रकर्षः श्रव्याणाम्, सेतुः सुरलोकस्य, भावामृतमयम् , देशकः शिवगतेः, जिनभावबीजम्, अभिव्यक्तो जिनेन, नातः परं कल्याणम्” इति । विशिष्टशुश्रूषया 'गृहिणः श्रावकस्य ‘एषोऽपि' अनन्तरोदितव्यापार: jaine
Jain Education International
ON USE
WWW.jainelibrary.org