________________
१४
श्रीहरिभद्रसूरिविरचितं
[गा० २७
एवमाद्यपि वीतरागे नमस्करणं प्रत्यप्रवृत्तस्य प्रवर्तकत्वात् चारिचरकसञ्जी
बन्यचरकचारणन्यायेनादुष्टमेव । इति गाथार्थः ॥ २६ ॥
वीयस्स उ लोगुत्तरधम्मम्मि अणुब्वयाह अहिगिच्च । परिसुद्धाणायोगा तस्स तहाभावमासज्ज ||२७||
'द्वितीयस्य पुनः' उपन्यासक्रमप्रामाण्यात् सम्यग्दृष्टेः 'लोकोत्तरधर्मे' लोकोत्तरधर्मविषयः ‘अणुव्रताद्यधिकृत्य’ अणुव्रत - गुणव्रत - शिक्षापदान्याश्रित्य, उपदेशो दातव्य इति वर्तते । कथम् ? इत्याह – 'परिशुद्धाज्ञायोगात् ' त्रिकोटिपरिशुद्धाज्ञानुसारेणेति भावः ‘तस्य' श्रोतुः ‘तथाभावमासाद्य' अभिप्रायं ज्ञात्वा यद् यत् परिणमति । इति गाथार्थः ||२७||
10 अथ किमर्थं सुप्रसिद्धमादी साधुधर्मोपदेशमुलाचास्य श्रावकधर्मोपदेशः ! इत्याह
तस्साऽऽसण्णत्तणओ तम्मि दढं पक्खवायजोगाओ । सिग्यं परिणामाओ सम्मं परिपालणाओ य ||२८||
‘तस्य’ श्रावकधर्मस्य ‘आसन्नत्वाद्' गुणस्थानकक्रमेण भावप्रतिपत्तिं प्रति प्रत्या15 सन्न:, [ १२ प्र० ] यथोक्तम् — “सम्मत्तम्मि उ लद्धे पलियपुहत्तेण ०" [विशेषा ० गा० १२२२ ] इत्यादि, अत एव कारणात् ' तस्मिन्' श्रावकधर्मे 'दृढम् ' अत्यर्थं ‘पक्षपातयोगात्’ आसन्ने हि भावतस्तत्स्वभावसम्भवेन पक्षपातभावात् । अत एव कारणात् 'शी' तूर्णं परिणामात्' क्रियया परिणमनात्, तत्पक्षपाते तद्भावापत्तिरिति कृत्वा । तथा ‘सम्यग्’ यथासूत्रं ‘परिपालनातश्च' परिणतिगुणेनेति । सुप्रसिद्धत्वं चाऽऽदौ 20) साबुधर्मोपदेशस्याणुत्रतादिप्रदानकालविषयम्, अन्यथोक्तविपर्यये दोषः । इति गाथार्थः ॥२८॥
Jain Education International
तइयस्स पुण विचित्तो तहत्तरसुजोगसाहगो णेओ । सामाइयाइविसओ णयणिउणं भावसारो ति ॥ २९ ॥
'तृतीयस्य पुनः ' उपन्यासक्रमप्रामाण्यादेव चारित्रिणः प्रक्रमाद् देशचारित्रिणः श्रावकस्य 'विचित्रः' नानाप्रकारः तदपान्तरालभूमिकीपेक्षया ' तथा ' तेन प्रकारेण 25 उत्तरसुयोगसाधको ज्ञेय उपदेशः । उत्तराः सुयोगाः तद्भूमिकानुक्रमागता एव प्रतिमानुरूपेण | साध्यमाह --. 'सामायिकादिविषयः' अर्थनीत्या सामायिक-च्छेदो
कापेक्षाया प्रतौ
For Private & Personal Use Only
www.jainelibrary.org