________________
स्वोपशटीकालंकृतं योगशतकम् । योग्यतारूपां मत्वा । किम् ? इत्याह ---उपदेशो दातव्यः, प्रक्रमाद् धर्मविषयः । कथम् ? इत्याह-'यथोचितम्' इति क्रियाविशेषणम् औचित्यापेक्षया । 'औषधोदाहरणात्' इति औषधोदाहरणेन यथेदं सदपि व्याध्याद्यपेक्षया मात्रादिना च दीयते, ततोऽन्यथा दोषभावात् । इति गाथार्थः ॥२४॥
साम्प्रतं यथा दातव्यस्तथा लेशत आह
पढमस्स लोगधम्मे परपीडावज्जणाइ ओहेणं ।
गुरु-देवा-ऽतिहिपूयाइ दीणदाणाइ अहिगिच्च ॥२५॥ 'प्रथ[ ११-प्र० ]मस्य' अपुनर्बन्धकस्य 'लोकधर्मे' लोकधर्मविषयः परपीडावर्जनाद्यधिकृत्येति योगः । परपीडा न कर्तव्या, सत्यं वक्तव्यमित्यादि 'ओघेन' सामान्येन, न विक्षेपणि(?णी)कथाविशेषेण । तथा गुरु-देवा-ऽतिथिपूजाद्यधिकृत्य । तद्यथा--- 10 गुरुपूजा कर्तव्या, देवपूजा कर्तव्या, अतिथिपूजा कर्तव्या, आदिशब्दात् सत्कार-सम्मानपरिग्रहः । तथा दीनदानादि चाधिकृत्योपदेशो दातव्यः-दीनेभ्यो देयम्, तपस्विभ्यो देयम् , आदिशब्दाद् रात्रिभोजनादि परिहर्तव्यम् । इति गाथार्थः ॥२५॥
किमित्येतदेवम् ? इत्याह
एवं चिय अवयारो जायइ मग्गम्मि हंदि एयस्स ।
रण्णे पहपभट्ठोऽवट्टाए बट्टमोयरइ ॥२६॥ 'एवमेव' उक्तेनैव प्रकारेण अवतारो जायते ‘मार्गे' सम्यग्दर्शनादिलक्षणे। ‘हन्दि' इत्युपप्रदर्शने । 'एतस्य' अपुनर्बन्धकस्य, विक्षेपाभावाद् गुणमात्ररागभावाद् विशिष्टबुद्धयभावाच्चेति । अत्रैव निदर्शनमाह- अरण्ये' कान्तारे पथप्रभ्रष्टः' मागच्युतः अवर्तन्या व्यवहारतः वर्तनीमवतरति व्यवहारत एव, निश्चयतस्तु साऽपि वर्तन्येव, तया तथा तदवतरणात् । ३.) अत एवोक्तम्-'"आभिप्रायिकी योगिनां धर्मदेशना. उपेयसाधनत्वेन उपायस्य तत्त्वात्" । ११-द्वि० ] तथा – “अचर्यैव चर्या बोधिसत्त्वानाम् , लक्षवेधिनोऽवन्ध्यचेष्टा ह्येते"। एवं च
"सर्वदेवान् नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यपि तरन्ति ते ॥"
[योगबिन्दुः श्लो० ११८] इति । १ सर्वान् देवान् इति योगबिन्दौ ॥ २ ०ण्यतितर योगबिन्दौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org